Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 448
________________ श्रीधन्य चरित्रम् | नवमः पल्लव: ॥४३९॥ देवौ जातौ । ततश्च्युत्वा पितुर्जीवः स एष धर्मदत्तोऽभूत्। पूर्वजन्मनि संविभागवतेऽन्तराऽन्तरा अतिचारकरणाद् अन्तराऽन्तरा दुःखं प्राप्तम् पश्यात् षोडशमात्रमोदकदानानुमोदनेन षोडशकोटिस्वर्णनायकोऽभूत्, नाऽधिकः । पुत्रजीवस्तु त्वं भूपतिरभूः पूर्णभक्तिपूर्वकदानेनाऽधिकतरपुण्याद् अक्षयस्वर्णनरः प्रादुर्भूतः। ॥इति धर्मदत्तस्य चन्द्रधवलस्य च पूर्वभववृत्तान्त ः॥ इति पूर्वभववार्तां श्रुत्वा नृपतिश्चिन्तयितुं लग्न:- शास्त्रे यदुक्तं त्तउतथैव भवद् दृश्यते । यतः - "धर्म एव सदा येषां दर्शनं प्रतिभूरभूत । क्वचित त्यजति किं नाम तेषां मन्दिरमिन्दिरा ?" ||१|| यद्यप्येवम्, तथापि मोक्षं विनाऽक्षयसौख्यं न भवति' इति ध्यात्वा गुरून् प्रत्यूचे-'प्रभो ! अपारभवपारावारसंतरणाय चारित्रपोतं मे देहि, भवत्कृपया मत्कार्यं सेत्स्यति । अतोऽहं गृहे गत्वा, जनव्यवहाराऽनुवृत्त्या राज्यचिन्तां कृत्वा,'आजीवितं भवच्चरणपर्युपासनां कर्तुमागमिष्यामि, तदा च भवता मम वराकस्योपरिकरुणां कृत्वा चारित्रं दातव्यम्' | गुरुभिरुक्तम्-- 'यथाऽऽत्मनो हितं भवेत् तथा कुरु, परं मा प्रमादोऽनुसर्तव्यः'। राज्ञोक्तम्-- 'तहत्ति' । ततो राज्ञा गुरुं नत्वा, गृहमागत्य, भोजनं कृत्वा, आस्थाने समेत्य, अमात्यमाहूयोक्तम्भो मन्त्रिन् ! राज्यं कस्य देयम् ?'। तेनोक्तम् - "स्वामिन् ! जगति विपरीता विधेगतिः । यत: - ॥४३२॥ १.आजन्म। Jain Educatio For Personal & Private Use Only www.iainelibrary.org

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496