Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 443
________________ श्रीधन्य चरित्रम् ॥ ४३४ ॥ न हु होंइ पराहूओ, सेलसीलघडिअपुरिसुत्व" "उत्तमैः सह साङ्गत्यं पण्डितैः सह सङ्कथाम् । अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ||१|| अधुना तु या 'पुण्योदय एव बलवत्तरो भवति' इति लोकोक्तिरेव मान्या" । ततः पूर्णे सामायिके पारिते सर्वं सज्जीकृत्य यावच्चलनाय प्रवर्तते तावता बुम्बारवोऽभवत् । यावच्च कियद् अग्रे चचाल तावताऽग्रे गतान् सार्थजनान् वस्त्ररहितान् दिगम्बरप्रायान् धावमानान् आगच्छतो ददर्श । तान् दृष्ट्वा विस्मितेन श्रेष्ठिना पृष्टम्‘कथम् ईदृश्यवस्था भवताम् ?' । तेऽप्यूचुः - 'धन्यस्त्वम्, धन्यस्तव धर्मः धन्या तवाऽऽस्था । यादृशां तव धर्मे स्थिरत्वं तादृशं पुण्यं फलितं प्रत्यक्षमेव दृष्टम् । वयमुत्सुका भूत्वाऽग्रे चलिताः, गव्यूतार्धमात्रं गतास्ताव कुञ्चगहनाद् घाटी उत्थिताः तैर्घाटीचोरैः ईदृशीकृत्य मुक्ताः । सर्वेऽपि मुषिताः, न कोऽप्युद्गरित:' । तछ्रुत्वा श्रेष्ठिना तेभ्यो वस्त्रादीनि दत्तानि, यशोवृद्धिर्जाता । ततः श्रेष्ठिना चिन्तितम् अधुनाऽग्रे गमनं न युक्तम्, पुण्येनोद्गरितोऽस्मि, सर्वत्र पुण्यबलं प्रभवति । चेत् पुण्यबलमस्ति तदा गृहस्थितस्यैव लाभो भविष्यति । अधुना च अद्यप्रभृति शकटादिना देशान्तरगमनेन खरकर्मव्यापारो न कर्तव्यः, यतः शास्त्रे महत्प्रायश्चित्तमुक्तम् । अतोऽस्य व्यापारस्य मम यावज्जीवं नियमः' । एवं नियमं कृत्वा पश्चाद्वलित्वा गृहमागतः । तावताऽस्य पुण्यबलेन तस्मात् काञ्चनपुराद् यद् वसन्तपुरविक्रयणयोग्यं क्रयाणकं गृहीतमस्ति तत् तत्रैव काञ्चनपुरे महार्घं जातम् । Jain Education International For Personal & Private Use Only नवमः पल्लव: ॥ ४३४ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496