Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 439
________________ श्रीधन्य नवमः पल्लव: चरित्रमाण ॥४ प्राप्य यः श्रीजिनधर्मं त्रिशुद्धयाऽऽराधयति स शीघ्रं जन्म-मरणादिसांसारिकदुःखम् उन्मूल्य सिद्धगतौ चिदानन्दपदमनुभवति"। तदा मर्कट्याः पुनः पुनर्धनवतीं पश्यन्त्या, गुरूक्तं शृण्वत्याः पूर्वाऽभ्यस्तधर्मकर्मादिप्रवृत्तिं धनवतीमुखाद् | गुरूमुखाच्च शृण्वत्या जातिस्मरणमुत्पन्नम् । ततो धनवती स्वधवं च गुरुं समुपलक्ष्य महत्याऽधृत्या विषादं कर्तुं लग्ना । तदा गुरुणा प्रतिबोधिता-'भद्रे ! किमधुना मुधाविषादकरणेन?; मोहस्य गतिरीदृशी । त्वया मरणसमये पति-पुत्रीचिन्तया आर्तध्यानं कृतं, तेन तिर्यग्गतिः प्राप्ता | स्वात्मदोषेण जीवा दुर्गतिषु भ्राम्यन्ति | सर्वे जीवाः स्वकृतकर्माऽनुगा यथाबद्धम् अनुभवन्ति । पूर्वकर्म विना भुक्त्या विना चोग्रतपसा न कोऽपि क्षपयितुं समर्थः । यो हि संसारस्वरूपं विज्ञाय त्रासितो मुक्त्यर्थमेकान्तेन उत्तिष्ठते सोऽपि नवीनं कर्म न करोति, परं पूर्वबद्धं तु भुक्त्या उग्रतपसा चैव क्षपयति । त्वमपि पञ्चेन्द्रियाऽसि पञ्चमगुणस्थानकं यावद् प्राप्तुं योग्याऽसि, अतो यथा शक्ति तपोऽङ्गीकुरु, नमस्कारध्यानं चाऽविच्छिन्नगत्या ध्याय, तव दुर्गतिमोक्षो भविष्यति, तेन बीजेन च परम्परया सिद्धिसौख्यं प्राप्स्यसि । इयं तव पुत्री धनवती त्वां प्रतिपालयिष्यति, साहाय्यं च करिष्यति' । एवं गुरुवचः श्रुत्वा मर्कट्या एकान्तरोपवासनियमो गुरुसाक्षिकं गृहीतः । गुरुणापि तत्सर्वं धनवत्यै ज्ञापितम्'त्वया इमा गृहे रक्षित्वा साहाय्यं करणीयम् । इयं त्वन्माता, अस्याः सुप्रत्युपकारं कर्तुं त्वया कोटिभवैरपि न शक्यते, परंमातुः प्रत्युपकाराऽवसरोऽयम् एक एव यधर्माच्च्युता पुनधर्मे योज्या।युवयोः माता-पुत्रीसम्बन्धश्य ॥४३०॥ in Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496