Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम
॥ ४३१ ॥
सफलो भविष्यति' । तदा धनवत्या गुरुवचनमङ्गीकृत्य मर्कटी स्वनिष्ठया रक्षिता । अथ पुना राज्ञोक्तम्'स्वामिन् ! षोडशैव धनकोटयो धर्मदत्तस्य मिलिताः, नाऽधिकाः, तासां हार्दं भवतो चयमानं | मर्कटीनर्तनान्तर्वार्तया स्थगितं तद् अधुना प्रसादीक्रियताम्' । तदा गुरुः प्राह “श्रूयतां तर्हि दत्तावधानेन|| धर्मदत्तस्य चन्द्रधवलस्य च पूर्वभववृत्तान्तः ॥
कलिङ्गदेशे काञ्चनपुरं नगरम् । तत्र लक्ष्मीसागरो नाम व्यवहारी । तस्य लक्ष्मीवती प्रिया । तस्य गृहे | लक्ष्मीर्नास्ति, तथापि परम्परया जिनधर्मवासितकुलत्वाद् भक्त्या सर्वज्ञोक्तं धर्मं करोति । एवं तस्य भार्याऽपि इष्टधर्माऽस्ति । श्रेष्ठी उभयसन्ध्यायां प्रतिक्रमणं करोति, पुनर्यथाऽवसरे सामायिकमपि करोति । पर्वसु पौषधं करोति, पारणके संविभागमपि करोति, व्रतं च न मुञ्चति । एवं धर्मं करोति । पर संविभागव्रतम् अन्तरान्तरा सातिचारं करोति- कदाचित् शर्करादिकं वस्तु सचित्तवस्तूपरिस्थितमपि 'इदं निर्दोषम्' इति कृत्वा साधु | ददाति । कदाचिच्च दातुमनिच्छुः अचित्तमपि कौटिल्येन सचित्तवस्तूपरि स्थापयति' । कदाचित् कालाऽतिक्रमे निमन्त्रयति यदा गोचर्यां गताः साधवः स्वनिर्वाहयोग्यम् आहारं लब्ध्वा परावृत्य उपाश्रयं प्रति चलन्ति तदा गृहाद् बहिरागत्य तारस्वरेण बहुमानपूर्वकं विविधप्रवृत्त्या निमन्त्रयति । तच्छ्रुत्वा लोका जानन्ति - 'अहो ! अस्य दानरुचिः साधवस्तु निर्वाहमात्रे लब्धेऽधिकं न गृह्णन्ति, निःस्पृहत्वात्' । कदाचिच्च साधून् आहार करणानन्तरं निमन्त्रयतिः । कदाचिच्च आदातुमना वक्ति " इदं आहार्यं वस्तु शुद्धमस्ति, परं
Jain Education International
For Personal & Private Use Only
नवमः पल्लवः
॥ ४३१ ॥
www.jainelibrary.org

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496