Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम
पल्लव:
॥४१३॥
परदुःखभअनैकरसिकस्य भवतश्वरणशरणागतेन मया न प्राप्येत तदाऽन्यस्वर्णग्रहणेन किम् ? । अतो यद् | भावि तद् भवतु, नाऽहम् अन्यस्वर्णं गृह्णामि; अन्यस्वर्णं लात्वा महेभ्यपुत्रबिरुदं कथं लज्जयामि ? | मदीयस्वर्णपुरुषस्तु भवदीयनगरोपवनान्तरेव गतः, नान्यत्र | पूर्वमपि हि परदुःखभञ्जक| बिरुदवाहकैर्भूपतिभिर्देवतादिहतानि वस्र-कञ्चुका-5ऽभूषणदीनि साहसधैर्य-बुद्धयादिबलेन देवादिपाश्र्वादपि - आनीय दत्तानि । वर्तमाने तु भवानपि परदुःखभअकः, पितुरधिकं पुत्रवत् प्रजापालको विराजमानोऽस्ति , यदि मां दुःखाब्धेरवतार्य बुद्धिबलेन केनापिच्छलेन वा स्वर्णपुरुषं प्रकटं कृत्वा दापयिष्यति तदा तु भवच्चरणोपान्ते स्थितः सेवां करिष्यामि , अन्यथा तु स्वस्त्यस्तु भवते पुनर्देशान्तरं यास्यामि ।" __ इति तस्योक्तं श्रुत्वा नृपतिश्विन्तयितुंलग्न:-'अहो! अयं मत्पुरनिवासी दुःखसंतप्तो ममोपान्तमागतः । यद्यस्य दुःखं म भन्मि तदा ममाग्रे पूत्करणं वृथा भवति, यद्यस्य दुःखं श्रुत्वा वीर्यं न स्फोरयामि तदा मम नायकत्वक्षति: स्यात्, बन्दिजनसञ्चितं च यशो विफलीभवति। दीयमानं धनं तु न लाति, गतं वस्तु पुनः वायत्तम्!, किं करोमि ?, विषममापतितम् अस्यां मम सभायां सहस्रशो भटा धीरा वीराः परोपकारकरणैकरसिकाः सन्ति, अतस्तेषां मध्ये यः कोऽपि कार्यं साधयेत् तथापि ममैव माहात्म्यम्" | इति विचिन्त्य स्वहस्ते बीटकम् उत्पाट्य समस्तसभाया अग्रे उक्तम्-'अस्तीह मम सभायां मातृजातः पुत्रो योऽस्य स्वर्णनरं वालयित्वा स्वकीयां मदीयां सभायाश्य लज्जां रक्षति ?, तत्कार्यकरणाय क इदं बीटकं गृह्णाति ?' | एवं वदता नृपेण सर्वेषां बीटकं दर्शितम्, परं कोऽपि
||४१३॥ | दुःसाध्यकार्यत्वात् करंन प्रसारयति । तदा चन्द्रधवलकुमारेण चिन्तितम्-‘स्वर्णपुरुषस्तु मदायत्तः। पितुर्बीटकं
in Education
For Personal & Private Use Only
Twww.jainelibrary.org

Page Navigation
1 ... 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496