Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 434
________________ श्रीधन्य चरित्रम् ॥ ४२५॥ Jain Education Inte सपरिच्छदौ श्रीगुरून् नन्तुं वने गतौ । गुरवो दृष्टिपथमागतास्तावता पञ्चाऽभिगमपूर्वकं राज्ञा धर्मदत्तेन च श्री गुरवो वन्दिताः । श्रीगुरुभिरपि धर्मोपदेशो दत्तः यथा - ""दुल्लहं माणुस्सं जम्मं लध्धूणं रोहणं व रोरेण । रयणं व धम्मरयणं बुद्धिमया हंदि धित्तत्वं ॥ १ ॥ जिण - गुरुभक्ति जता, पभावणा सत्तखित्तधणवावो । सम्मत्तं छयावस्सय धम्मो सय लद्ध सुहहेऊ ॥ एवं देशनां सम्यक् श्रुत्वाऽवसरं प्राप्य राज्ञा पृष्टम् - प्रभो! धर्मदत्तेन महोद्यमेन अतिकष्टसहनेन च स्वर्णनरोऽर्जितः, स स्वर्णनरस्तु अविच्छिन्नोऽपि मद्गृहे समागतः । अस्य च बहुतरेणाऽपि व्यवसायकर षोडश कोट्य एवं तिष्ठन्ति, नाऽधिकाः; अत्र को हेतुः ?, तत्प्रसादं कुर्वन्तु भवन्तः' । इति राज्ञा कृतस्य प्रश्नस्योत्तरं यावद् गुरवो वदन्ति तावता एका मर्कटी वृक्षादुत्तीर्य गुरून् वन्दित्वा परितः पुनः पुनर्भ्राम्यति, नृत्यति च । तद् दृष्ट्वा राज्ञोक्तम्- 'प्रभो! 'पूर्वप्रश्नवार्ता पश्चात् कथनीया, परन्तु इयं मर्कटी नृत्यं कथं करोति | नमस्यति च ?, तदुच्यताम्' । ततो गुरुभिरुक्तम्- 'राजन् ! जगति मोहनीयकर्मगतिर्विषमा, अनिर्वचनीया भवितव्यता । एष पुरः स्थितो धर्मदत्तो मम जामाता, अहम् अस्य श्वशुरः, एषा मर्कटी मम पूर्वभवपत्नी, धर्मदत्तस्य १. दुर्लभं मानुष्यं जन्म, लब्ध्वा रोहणमिव रौरेव । रत्नमिव धर्मरत्नं बुद्धिमता खलु ग्रहीतव्यम्द ||१|| २. जिनगुरुभक्तिर्यात्रा, प्रभावना सप्तक्षेत्र धनवापः । सम्यक्त्वं षडावश्यकं, धर्मः सदा लब्धः सुखहेतुः ॥२॥ ३. षोडशकोटिप्रश्न - । For Personal & Private Use Only नवमः पल्लवः ॥ ४२५ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496