________________
श्रीधन्य चरित्रम्
॥ ४२५॥
Jain Education Inte
सपरिच्छदौ श्रीगुरून् नन्तुं वने गतौ । गुरवो दृष्टिपथमागतास्तावता पञ्चाऽभिगमपूर्वकं राज्ञा धर्मदत्तेन च श्री गुरवो वन्दिताः । श्रीगुरुभिरपि धर्मोपदेशो दत्तः यथा -
""दुल्लहं माणुस्सं जम्मं लध्धूणं रोहणं व रोरेण । रयणं व धम्मरयणं बुद्धिमया हंदि धित्तत्वं ॥ १ ॥ जिण - गुरुभक्ति जता, पभावणा सत्तखित्तधणवावो । सम्मत्तं छयावस्सय धम्मो सय लद्ध सुहहेऊ ॥
एवं देशनां सम्यक् श्रुत्वाऽवसरं प्राप्य राज्ञा पृष्टम् - प्रभो! धर्मदत्तेन महोद्यमेन अतिकष्टसहनेन च स्वर्णनरोऽर्जितः, स स्वर्णनरस्तु अविच्छिन्नोऽपि मद्गृहे समागतः । अस्य च बहुतरेणाऽपि व्यवसायकर षोडश कोट्य एवं तिष्ठन्ति, नाऽधिकाः; अत्र को हेतुः ?, तत्प्रसादं कुर्वन्तु भवन्तः' । इति राज्ञा कृतस्य प्रश्नस्योत्तरं यावद् गुरवो वदन्ति तावता एका मर्कटी वृक्षादुत्तीर्य गुरून् वन्दित्वा परितः पुनः पुनर्भ्राम्यति, नृत्यति च । तद् दृष्ट्वा राज्ञोक्तम्- 'प्रभो! 'पूर्वप्रश्नवार्ता पश्चात् कथनीया, परन्तु इयं मर्कटी नृत्यं कथं करोति | नमस्यति च ?, तदुच्यताम्' । ततो गुरुभिरुक्तम्- 'राजन् ! जगति मोहनीयकर्मगतिर्विषमा, अनिर्वचनीया भवितव्यता । एष पुरः स्थितो धर्मदत्तो मम जामाता, अहम् अस्य श्वशुरः, एषा मर्कटी मम पूर्वभवपत्नी, धर्मदत्तस्य
१. दुर्लभं मानुष्यं जन्म, लब्ध्वा रोहणमिव रौरेव । रत्नमिव धर्मरत्नं बुद्धिमता खलु ग्रहीतव्यम्द ||१|| २. जिनगुरुभक्तिर्यात्रा, प्रभावना सप्तक्षेत्र धनवापः । सम्यक्त्वं षडावश्यकं, धर्मः सदा लब्धः सुखहेतुः ॥२॥ ३. षोडशकोटिप्रश्न - ।
For Personal & Private Use Only
नवमः पल्लवः
॥ ४२५ ॥
ww.jainelibrary.org