SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ नवमः पल्लवः ॥४२६॥ च या स्री धनवती साऽस्मत्पुत्री, इयं तस्या माता । एतावता कोऽपि तत्पावस्थितस्तच्छुत्वा, उत्थाय च, धावन् नगरान्तर्धर्मदत्तस्य गृहे गत्वा धनवत्यै प्रोचे-'तव पिता धनसागरोगृहीतमुनिवेषः संप्राप्ताचार्यपदोऽत्रागतोऽस्ति, परमातिशयज्ञानवान् अस्ति, सर्वजनानां सन्देहान् निवारयति' । सा पितरं श्रुत्वा तत्क्षणं तत्राऽऽगात् , तावता मुनिभिः पुत्रीविवाहार्थं प्रवहणचटनादिवार्ता कथ्यमानाऽस्ति । ततः सा पितुर्दर्शनाद् अश्रूणि मुञ्चन्ती ववन्दे। अथ धनवत्या पृष्टम् – 'किमिदं स्वरूपम् ? कथं संजातम् ?' | गुरुभिरुक्तम्- “तदेव कथ्यते, श्रूयताम् - यदा प्रवहणं भग्नं तदा मम हस्ते फलकं लग्नम् । तदाधारेण तरता नवभिर्दिनैस्तटं प्राप्तम् । फलकं त्यक्त्वा पटे समुत्तीर्याऽग्रतश्वलितोऽहं तावता पुरमेकं दूरतो दृष्ट्वा तन्नगरसम्मुखं चलितः, तावता मार्गे कोऽप्येको विप्रो मिलितः। अथ विप्रेणाऽग्रत एव मां प्रत्युक्तम्-'हे धनसागर! आगम्यताम् आगम्यतां मद्गृहे' |मयोक्तम्कस्त्वम् ?' कथं मामुपलक्ष्यसे ?' | तेनोक्तम् – 'आगच्छ मद्गृहे, सर्वं निवेदयिष्यामि' इत्युक्त्वाऽऽग्रहण स्वगृहं नीतः । पश्यात् तेन तैलाभ्यङ्गं तप्तपानीयादिना स्नानं च कारयित्वा मार्गश्रमोऽपनीतः । ततो विविधरसास्वादयुतां रसवतीं निष्पाद्य महत्या भक्त्या भोजितः । तत आचमनं कृत्वा, शुचीभूय, ताम्बूलादिना मुखशुद्धिं विधाय, गृहोपरितनभूमौ सोऽहं च द्वावपि स्थितौ । तदा मया पृष्टम् -'भो द्विजवर! अनुपलक्षितस्य मम किमर्थं सविशेषभक्तिं करोषि ?, अहंतु त्वां नोपलक्ष्ये'। तेनोक्तम्-"शृणु विस्मयकृद्वार्ताम्-इदंशङ्खपुराभिधं नगरमस्ति । अत्राहं जिनधर्मवासिताऽन्तःकरणो जिनशर्माभिधानो निवसामि | श्रीमज्जिनाज्ञया यथाशक्ति धर्मे प्रवर्ते । सद्गुरूणां सुसज्जनानां च सेवया शास्त्रगत-हार्दानि बहुतराणि लब्धानि | आजीविकाऽपि सुलभा ॥४२६॥ in Education remational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy