SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४२७॥ मम; परम् एकः कुलसन्तानविवर्धनकरः पुत्रो नाऽभूत् । तदर्थं मया कुलदेवताऽऽराधिता, साऽपि सेवया प्रत्यक्षीभूयाऽवदत् - 'किमर्थमाराधिताऽहम् ?' | मयोक्तम्- 'पुत्रं देहि' । तयोक्तम् - 'वत्स! तवाऽन्तरायकृन्निकाचितकर्मणाम् उदयोऽस्ति, तेन तव पुत्रो न भवति' । तदा मयोक्तम्-'अपुत्रस्य गति स्ति, इति श्रद्धा तु मम नास्त्येव सद्गुरूणां प्रसादात्; सद्गतिस्तु शुद्धपुण्याध्यवसायाद् भवति, नान्यथा | परं मया अनेकोत्तममहापुरुषाणां सेवया चित्तं प्रसत्तिभाजनं कृत्वा अनेकाश्चमत्कारकारिण्यो विद्याः प्राप्ताः सन्ति, ता विच्छेदं यास्यन्ति । एष मे विषादः । तदा तयोक्तं -- कमलपुरवासी, भग्नप्रवहणो धनसागरो वणिग्वरो नवभिर्दिनैरत्र तटे समेष्यति । तं स्वगृहे समानीय त्वया तस्य निःशङ्क सर्वा विद्या देयाः । स योग्योऽस्ति, यत एकवारं श्रुतं तस्य सर्वं समेष्यति, एवं त्वम् अनृणो भविष्यसि । पात्रस्याऽदाने कुपात्रस्य च दाने महत्प्रायश्चित्तम्, अतो लब्धे पात्रे क्षणमपि विलम्बो न करणीयः । तथा च त्वया स स्वपुत्रिकया सह पाणिग्रहणं कारयितव्यः'। इत्युक्त्वा देवी अदृश्यतां प्राप्ता | सा देव्युक्ता वार्ता सर्वाऽद्य मिलिता, तेन तव भक्तिः क्रियते । अतो हे सज्जन ! सङ्कल्पविकल्पं त्यक्त्वा स्वगृहवद्मद्गृहे सुखेन स्थातव्यम्, पोतभग्नत्वादिचिन्तां विहाय स्थातव्यम्। ज्ञानिना यद् दृष्टं तदेव भवति । शुद्धश्रद्धावतां जैनानाम् उदयचिन्ता न प्रबला भवति, यत उदये स्वायत्तत्त्वं नास्ति तदा चिन्तया किंफलम् ?; प्रत्युत आर्तवशात् पापकर्म चिन्वन्ति जीवाः भव्यैर्बन्धचिन्ता तु प्रतिक्षणं हेयो-पादेयत्वेन सम्यगरीत्या चिन्त्या एव, यतो बन्धकरणं तु स्वायत्तमेवाऽस्ति, तत्र हेयो-पादेय परिचयात् प्रायः पापकर्म न ॥४२७॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy