SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४२४॥ यावद् नीतः । धर्मदत्तेनापि यथायोग्यं ताम्बूल-वस्त्रादि दत्त्वा ते सर्वेऽपि विसर्जिताः । ततः प्रत्यहं राजसभायां याति, राजापि दिने दिने मानवृद्धिं करोति । अथाऽन्यदा राज्ञा पृष्टम्- 'तव पार्वे कियद्धनं वर्तते ?' | धर्मदत्तेनोक्तम्-"स्वामिन् ! भवत्प्रसादेन षोडशकोटिधनमस्ति, परन्तु एकं महत्कौतुकमस्ति तच्छृयताम् पूर्वं हि वनान्तर्भवदादेशेन स्वर्णनरात् स्वर्ण बहुतरं मया यथेच्छं गृहीतम् । ततो भवतः पृथग्भूत्वा तेन स्वर्णेन व्यवसायं कुर्वता मया षोडश कोट्योऽर्जिताः। ततोऽत्रागतः । पुनरत्रापि जल-स्थलपथेषु व्यवसायः कृतः, परं वर्षान्ते लाभशुद्धयर्थं नाणकमेलने लेखकरणे च तावत्य एव षोडशकोट्य एवाऽदृश्यन्त, नाऽधिकं किञ्चिदपि | न्यूनाधिकव्ययकरणेऽपि एतावत्य एव तिष्ठन्ति। ततो वृद्धयर्थं बहुभिः प्रकारैरतिनिपुणतया व्यापारः कृतः, सर्वव्यापारिभिश्व व्यापारबाहुल्यं दृष्ट्वा स्वस्वचित्तेऽनुमितम्-'अस्मिन् वर्षे धर्मदत्तस्य चतसृणां पद्यानां वा धनकोटीनां वृद्धिर्भविष्यति' ; परन्तु मया लेख्यकः कृतस्तदा तु तावत्य एव । तावत्य एव जाताः, नाऽधिकं किश्चिदपि | पुनरतिसङ्कुचितव्ययेन कृपणगत्या व्यापारः कृतः, तदापिपुनर्महान् व्ययः कृतस्तदाऽपितावत्य एव। ततो भद्मोद्यमोऽहं यथायोग्य व्यवसायं करोमि, नाधिकम् । एतद्दृष्ट्वा मच्चित्ते महत्कौतुकमस्ति, तद् विनाऽतिशयज्ञानिनं को वक्तुं प्रभवेत् ?" | इत्येवं राज्ञोऽये निर्दम्भवार्ता कुर्वन्नस्ति तावता प्रतीहारेण सहाऽऽगत्य वनपालो राज्ञः प्रणामपूर्वकं विज्ञप्तिं कर्तुं लग्नः'स्वामिन् ! अद्य वसन्तविलासनाम्नि भवदीयोद्याने बहुभिर्वाचयमैः परिवृताः श्रीमद्धनसागरसूरयः समवसृताः सन्ति, निजाऽतिशयज्ञानेन च भव्यजनानुपकुर्वन्तो विचरन्ति' । इति तदुक्तं श्रुत्वा राजा धर्मदत्तश्य द्वावपि १. नगरे यशोवृद्धिः संजाता इत्यधिकः पाठः प्र.|२. लेखकरणे तु।३. मुनिभिः । ॥४२४॥ Jain Education 12 For Personal & Private Use Only Tww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy