________________
श्रीधन्य चरित्रम्
॥ ४२३ ॥
अथ तस्य राज्ञोऽन्यदा पाश्चात्यरात्रौ जागरितस्य राज्य चिन्ता कुर्वतो धर्मदत्तः स्मृतिपथमागतः । 'अहो ! मया प्रमादबहुलेन राज्यमग्नेन परमोपकारी कृतज्ञचूडामणिः परममित्रं धर्मदत्तो न कदापि स्मृतिपथमानीतः । | अतः प्रभाते तस्य शुद्धिं कारयित्वा, सभायाम् आह्वाय्य, अत्यादरपूर्वक सम्मानं दातव्यम्; प्रीतिलता च वर्धनीया' । एवं विचारयति सति प्रभातं संजातम् । ततो राज्ञा शय्यातः समुत्थाय, प्राभातिककृत्यानि कृत्वा, आस्थानमलङ्कृत्य, नगरवास्तव्यानां पृष्टम् -'श्रीपतिश्रेष्ठिनः पुत्रो धर्मदत्तोऽत्रास्ति वा देशान्तरे गतः ?' | तैरुक्तम्- 'स्वामिन्! तेन तु देशान्तरे गत्वा, बहुद्रव्यमर्जयित्वा, गृहमागत्य पितुर्नाम समुद्द्योतितम् । अधुना तु नगरमध्ये अनेन समानो न कोऽप्यस्ति, नगरमध्ये मुख्योऽयमेवाऽस्ति' । तच्छ्रुत्वा सहर्षं मुख्यमन्त्रिणं सम्प्रेष्य बहुमानपूर्वकम् आकारितः । धर्मदत्तोऽपि अद्भुतोपायनं लात्वा मन्त्रिणा सह रथारूढः सभायां प्राप्तः । राजानं नमस्कृत्योपायनं चाऽग्रे धृतम् । राज्ञाऽपि बहुमानं दत्त्वा स्वसमीपतरवर्तिप्रदेशे स्थापितः, सुख-क्षेमवार्ता च पृष्टा । पुना राज्ञोक्तम्- 'यस्त्वया महास्वर्णपुरुषो दत्तस्तेन धरित्रीलोका अनृणीकृताः, १ मम च यशः सर्वत्र प्रवर्तते स तवैवोपकार:' । धर्मदत्तेनोक्तम्- 'स्वामिन्! किमर्थं मम प्रस्फुलनं भवान् करोति ? | स्वर्णनरस्तु भवता प्रकटीकृतः । मम भाग्यमधिकमभविष्यच्चेत् कथं क्षणान्तरे हस्ताद् अगमिष्यत् ?; प्रत्युत भवता तु मम वियोगदुःखं निवारितम्, स्वर्णं च दत्वा दारिद्यं स्फेटितम् । मनुष्याणां पङ्क्तौ भवतैक रक्षितोऽहम्' । एवं परस्परं सज्जनस्वभावत्वाद् गुणग्रहणं कृतम् । ततो राज्ञा धर्मदत्तस्य नगर श्रेष्ठिपदं दत्तम् । पट्टबन्धपूर्वकं वस्त्राभरणादि बहु-दत्त्वा राजकीय सामन्तैः सर्वमहेभ्यैश्व सह महत्या विभूत्या गीतनृत्यबन्दिबिरुदपठनादिमहामहेन च गृहं १. लोकाननृणीकृते च मम यशः ।
Jain Educational
For Personal & Private Use Only
नवमः
पल्लवः
॥ ४२३ ॥
www.jainelibrary.org