SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् | नवमः पल्लव: ॥४२॥ __"एकेनापि सुपुत्रेण जायमानेन सत्कुलमा शशिना चेव गगनं सर्वेवोज्ज्वलीकृतम्" ||२|| एवं प्रतिगृहं प्रतिमुखं तस्य यशो जल्प्यते । ततो द्वितीयदिने स्वजन-मित्र-ज्ञातिजनान् निमन्त्र्य, अतिसुन्दरसुखभक्षिकादिरसवत्या भोजयित्वा, पुष्प- ताम्बूलादि दत्त्वा, ते यथायोग्यं वस्त्राभरणैः 'सत्कृताः । अथ पूर्बजायाया अग्रे प्रवहणारोहणतो यावद् गृहमागतस्तावत्पर्यन्तः सौं व्यतिकर: कथितः । साऽपि साश्रुलोचना उक्तवती-'स्वामिन् ! पूर्वजानां धर्मप्रसादेन भवदर्शनं जातम् । एतावन्ति दिनानि मया महादुःखेन गमितानि; अधुना तु अहं भाग्यवतीनां शिरोमणिर्जाता, सर्वेषां स्वजनानां हर्षसन्तोषः संजातः । ततः प्रभृति धर्मदत्तः पितृवद् व्यापारकरणाय प्रवृत्तः। .. अथ यशोधबलेन राज्ञा मुकुरं वीक्षमाणेन पलितं दृष्ट्वा अद्भुतवैराग्यप्रकर्षेण चन्द्रधवलाय राज्यं दत्त्वा दीक्षा गृहीता | ततो दुस्तरं तपस्तप्त्वा, घातिकर्माणि क्षपयित्वा, केवलज्ञानमुत्पाद्य, पृथिव्यां बहून् भव्यान् प्रबोध्य, अन्ते एकमासं संलेखनां कृत्वा, अघातिकर्माण्यपि योगरोधनपूर्वकं क्षपयित्वा महानन्दपदं प्रपेदे । अथ प्राप्तराज्यश्चन्द्रधवलो न्यायेन राज्यं करोति स्म । तेन च युक्तिभिः पूज्यमानस्य स्वर्णपुरुषस्य हस्तौ पादौ च च्छिन्नावपि अन्वहं प्रादुर्बभूवुः एवं प्रत्यहं वर्धमानेन हेम्ना तस्य कोशोऽक्षयो जातः । अन्यदा दारिद्यपीडितान् लोकान् दृष्ट्वा संजातकरुणश्चन्द्रधवल: स्वर्णपुरुषोत्पन्नस्वर्णेन विश्वम् अदरिद्रीकृत्य, समयां पृथ्वीम् अनृणां च कृत्वा स्वकीयं चन्द्रसंवत्सरं प्रवर्तयामास | १.परिधाविताः। ॥४२२॥ Jain Educational For Personal & Private Use Only How.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy