SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ४२१ ॥ Jain Education | स्वजनेभ्यो वर्धापनिकायां वस्त्रधना- Sऽभूषणादिकं ददौ । ततः स्वजना विविधसुखासन यान वाहनाऽधिरूढाः, | अनुपमवस्त्राभरणैरलङ्कृताः, विविधातोद्यानि वादयन्तोऽहमहमिकया धावन्तो, योजनं यावत् सम्मुखमागताः । अथ स्वजनादीन् जोत्कारपूर्वकं गाढमालिङ्गय मिलितः । परस्परं सुखक्षेमवार्ता पृष्टा । ततः कुलवृद्धान् अतिपरिचितांश्व जनान् सम्मानपूर्वकं स्वरथे संस्थाप्य, अन्यानपि यथायोग्यं वाहना-ऽश्वादिषु अश्ववारिक | कारयित्वा, बहुविधाडम्बरसहितः, सहस्रसङ्ख्यलोकपरिवृतोऽनेकवादित्रैर्वाद्यमानः सधवकुलवधूनिर्धवलमङ्गलानि गीयमानः प्रबलोत्साहपूर्वकं याचकजनेभ्यो दानं ददानः, त्रिपथ चतुष्पथ-राजपथेषु प्रतिपदं पुरवासिमहानैर्जेत्कारं क्रियमाणः स्वगृहमागतः । पूर्वजायया अक्षत-पुष्पादिभिर्वर्धापयित्वा गृहे नीतः । आस्थाने चागत्य स्थितस्तदा स्वजनैरन्यैः परिचिताऽपरिचितैश्चागत्य विविधवस्त्राऽऽभरण-स्वर्ण रूप्य| नाणकै रुपायनानि कृतानि तानि च गृहमर्यादया रक्षितुं योग्यानि रक्षितानि । तथा कुमारेणापि विविधदेशोत्पन्नवस्त्रादिभिर्यथायोग्यं ते 'सत्कृताः । अथ धनवती सुखासनाद् उत्तीर्य बहुविधवस्त्र| द्रव्यादिमोचनपूर्वकं पूर्वजायायाः पादयोः पतिता । तयाऽपि आशीर्वादं दत्त्वा गाढमालिङ्गिता । परस्परं सुख| समाधिपृच्छा कृता । सर्वेऽपि नगरवासिनः पूर्वाश्रितलोका ये यथा जानन्ति ते मिलनायागच्छन्ति, धर्मदत्तोऽपि | तान् मधुरालापपूर्वकं सम्मान्य तर्पयति । समस्तेऽपि नगरेऽतीव यशः प्रसृत्म्- 'दृश्यताम्, श्रीपतिश्रेष्ठिनः पुत्रः कीदृश: ?, पितुर्नाम वर्धितम् । पूर्वं क्षीणो भूत्वाऽपि स्वभुजाबलेन बहुधनमर्जयित्वा आगतः, कुलं च उद्योतितम् । सुपुत्रो भवति स कुलमुज्ज्वलयति । यतः १. परिधापिता । २. ततो । For Personal & Private Use Only नवमः पल्लवः | ॥ ४२१ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy