SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ नवमः पल्लव: चरित्रम् ॥४२०॥ च्छित्त्वा स्वर्णं गृहीतम् । पुनः कुमारं प्रत्युक्तम्-'भवत्कृपया मया व्यवसाययोग्यं स्वर्णं गृहीतम्, अधुनातु भवता | तं गृहीत्वा नगरम् अलक्रियताम्' । ततः कुमारोऽत्याग्रहाद् गल-शीर्षादिशेषं स्वर्णनरमुत्पाट्य, क्वापि संगोप्य गृहं ययौ । राज्ञो मिलितः । राज्ञा पृष्टम्-- 'तस्य दुःखितस्य समीहितं सिद्धम् ?'। कुमारेणोक्तम्'भवच्चरणप्रसत्तेस्तस्य समीहितं सिद्धम्' | राज्ञोक्तम्-'भव्यं संजातम्' | नाऽन्यत् किमपि पृष्टम्, निर्लोभसुराजस्वभावत्वाद् धनसमृद्धयादिपूर्णत्वाच्च । कुमारेणापि प्रस्फुलनभयाद् न किमपि विस्तरेणोक्तम् । ततो राजा कुमारश्य पुनः स्वस्वकार्यकरणाय प्रवृत्तौ। अथ धर्मदत्तः क्वापि निकटवर्तिनगरे गत्वा भव्यं गृहं गृहीत्वा स्थितः । तत्रस्थस्तेन स्वर्णेन व्यवसायं कुर्तुं प्रवृत्तः । अनेकानि मन्त्री-करभ-शकटानि क्रयाणकैर्भूत्वा देशान्तरे प्रेषितानि । तत्र च स्वपुण्यप्राम्भारोदयेन विंशतिगुणमूल्येन विक्रीतानि | पुनस्तत्रत्यं क्रयाणकं स्ववासपुरमानीतम्, तत्रापि दशगुणमूल्येन विक्रीतम् । इत्येवं गमनागमनं कुर्वता स्तोकेनैव कालेन षोडशकोटिधनं मेलितम् । अथाऽन्यदा धर्मदत्तेन चिन्तितम्'षोडशकोटिधनं प्राप्तम्, अधुनाऽत्र निवसनं न युक्तं, स्वपुरं यामि । तत्र गत्वा पितुर्नाम उद्योतयामि, मूलभार्याया मनोरथान् पूरयामि, स्वजनादींश्व तर्पयामि । सुपात्रदान-पूजादिभिः प्राप्तं नरभवं सफलं करोमि' । इति विचिन्त्य, तत्रस्थं व्यापार संहृत्य, महान्तं सार्थं संमेल्य, प्रियां सुखासने निवेश्य, स्वयम् अश्वरथादिवाहने यथेच्छमारूढोऽनेकशतभटैः परिवृतः स्वपुरगमनाय प्रस्थितः। ततः स्तोकैरेव दिवसैः स्वपुरासन्नं प्राप्तः । स्वगृहं प्रति वर्धापनिका प्रेषिता यद्-- 'धर्मदत्तः श्रेष्ठी बहुधनम् अर्जयित्वा समृद्धियुक्त आगतः' । तच्छुत्वा पूर्वजाया ॥४२०॥ Jain Education Intel For Personal & Private Use Only a w.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy