________________
श्रीधन्य
चरित्रम्
नवमः पल्लव:
॥४१९॥
"अर्थः सुखं कीर्तिरपीह मा भूदनर्थ एवास्तु तथापि धीराः ।
निजप्रतिज्ञामनुरुध्यमाना, महोद्यमाः कर्म समारभन्ते" ||१|| तव मनोरथपूर्ती मया सर्वं लब्धम्'। इत्युक्त्वा विरते कुमारे धर्मदत्तः प्राह -स्वामिन् ! इमं स्वर्णनरं भवानेव गृह्णातु | मया तु प्रियाप्राप्तौ शतसङ्ख्यया स्वर्णनराः प्राप्ताः, अतो भवानेब गृह्णातु' । कुमारेणोक्तम्-'किं वातूलोऽसि ?, किं वा प्रियादर्शनेन मतिमोहो जातः ?, यद् इमं बहुप्रयत्नसाध्यं दुष्प्राप्यं न गृह्णासि' ? तदा धर्मदत्तेनोक्तम्-स्वामिन् ! अहं वणिग्मात्रः, तेन नाऽयं मद्गृहे घटते, अतो भवानेब गृह्णातु । मम तु भवत्कृपया भव्यं भविष्यति; भवतामेव योग्योऽयं, नान्यस्य' । कुमारेणोक्तम्--'कुत्रापि तच्छुतं, कष्टं कोऽपिकरोति ग्रहीता च कोऽपि भवति ?। त्वमेव प्रतिवनं भ्रान्तोऽसि, त्वयैव आतपादि महत्कष्टं सोढं, मरणान्तोपसर्गाद्यतिक्लेशैनिष्पादितोऽयं त्वया स्वर्णनरः, स मया कथं गृह्येत ? | अतस्त्वया निष्पादितं त्वमेव गृहाण' धर्मदत्तेनोक्तम्- 'स्वामिन् ! स्वर्णनरग्रहणयोग्यं मम भाग्यं नास्ति । मम भाग्यं तु मया पूर्वमेव परीक्षितम्, चेद् भाग्ये भवेत् तदा क्षणान्तरमध्ये कस्माद् गच्छेत् ? | गतोऽप्यसौ त्वया स्ववीर्येण पुण्यबलेन च प्रकटितः, न मया दत्तः । त्वया प्रकटितं त्वमेव गृहाण | मम तु एतद्ग्रहणे भवच्चरणशपथोऽस्ति मया तु अयमुपायनीकृतः' । एवम् अत्याग्रहेण कुमारेण मानितम् । ततः कुमारेणोक्तम्-'भो भद्र ! अस्माद् यथेच्छं स्वर्णं गृहाण, येन त्वं व्यापारकरणाय प्रभवः । त्वया गृहीते मम चित्तम् आनन्दमेदुरं भविष्यति । तदा धर्मदत्तेन द्वौ पादौ द्वौ करौ च १. तदा धर्मदत्तोऽपि तस्मात् स्वर्णनरात् प्रतिदिनं शीर्षमात्रं मुक्त्वा अन्यत् स्वर्णं गृह्णाति, एवं कियन्ति दिनानि स्वर्णं ग्रहीत्वा पुनः कुमारं प्रत्युक्तं। २. गलशीर्षमात्रम्।
॥४१९॥
in Education Intern
For Personal & Private Use Only
www.jainelibrary.org