________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
॥४१८॥
इति विचिन्त्य तां यक्षिणीमुद्दिश्य षड् उपवासा निश्वलचेतसा कृताः। पूर्ववद्धैर्यबलेन यक्षिणी कम्पितासना सती प्रत्यक्षीभूय बभाषे- 'वत्स! किमेवं साहसं क्रियते ?' | कुमारेणोक्तम्-'धर्मदत्तस्य प्रियामर्पयतु' । यक्षिण्योक्तम्-‘एतां कल्पान्तेऽपि नाऽर्पयामि, परं तवोत्कृष्टं साहसं निषेधयितुमशक्ता' । इत्युक्त्वाऽनिच्छन्त्याऽपि वस्त्राभरणैः सत्कृत्य साऽर्पिता। कुमारेणापिधर्मदत्तमाहूय प्रोक्तम्-'एषा तव प्रियाऽस्ति वा न ?' | सोऽपि दिव्याभरणभूषितां दुकूलैश्योपशोभितां स्वप्रियां वीक्ष्य हृष्टः सन् कुमारं प्रत्युवाच-'सिद्धं मे समीहितुं भवत्सप्रसादात्' ! पुनः कुमारेणोक्तम्-'चलाऽग्रतोऽधुना, यथा तव स्वर्णनरं समर्पयामि । इत्युक्त्वा प्रियासहितं धर्मदत्तमादाय 'श्मशाने गतः । तत्र साऽभिज्ञाना वृक्षासन्नप्रदेशभूमिदर्शिता | प्रोक्तं च-'भो भद्र ! अत्र त्वं भूमि खनय' । तद्वाक्यात्तेन खनिता, तावतातत्रस्थो दैदीप्यमानो महान् स्वर्णनरो निर्गतः । तदा धर्मदत्तेन चिन्तितम्-'अहो! एवंविधो निष्कारणोपकर्ता कुमार एव; नान्यः। अधुना शतश उपकरोमि तथापि सुप्रतीकारो न भवामि, 'परं यथाशक्ति तस्य सेवायां प्रवर्तितव्यम् । सदा तस्यानुकूल्येन प्रवर्तनं कर्तव्यं, पुनः पुनः स्वमुखेन तस्य स्तुतिः कर्तव्या' । इति क्षणं विमृश्योक्तम्-भोः कुमार ! त्वया परमोपकारः कृतः, यो हि एकमुखेन शतसहस्रवषैरपि वक्तुमशक्यः, अतः परं किं याचेऽहम् ?' तदा कुमारेणोक्तम्-'ममापि प्रतिज्ञानिवहिण चित्ते महानन्दः संजातः । पुरुषस्य स्वोक्तपालनेनैव पौरुषं श्लाघ्यते । यतः
100
॥४१८॥
१. द्वावपि तत्र श्मशाने गतौ। २. तथापि यथाशक्त्या।
in Education Interational
For Personal & Private Use Only
www.jainelibrary.org