________________
श्रीधन्य चरित्रम्
नवमः पल्लव:
'देव ! मम मित्रस्य धर्मदत्तस्य प्रियां समर्पय' । यक्षेणोक्तम्-'अत्रार्थे ममाऽधिकारो नास्ति' । कुमारः प्राह-'तहि कस्य ?' | यक्षेणोक्तम्-‘सा मम प्रियायै दत्ताऽस्ति, अतो मया तुभ्यं दातुं न शक्यते' । कुमारेणोक्तम्-कथम् ?' यक्षेणोक्तम्-“शृणु' एकदाऽहं प्रियासहित: क्वपि वनान्तरे गतः । तत्र स्वेच्छया परिभ्रमणक्रियां कुर्वता मया सा दिव्यरूपा मेनकातोऽप्यतिसौन्दर्या सुप्ता दृष्टा| मया विमृष्टम्-'अहो! क्वापि मानवी ईदृशी न दृष्टिपथमागता। महाश्वर्यकारिणीम् एनां चेद् आश्चर्यप्रियाया मत्प्रिया: पार्श्वे मुक्ता । अथ सा तां दृष्ट्वा प्रमोदभाग् जाता, ताम् अतियत्नेन रक्षति, क्षणमपि न मुञ्चति । अतो ममायत्ता नास्ति' | कुमारेणोक्तम्-'हे यक्षराज ! मया तु एतदर्थं त्वमाराधितः , अतस्तां मे समर्पय' । यक्षेणोक्तम्- 'सा मया प्रियायै समर्पिता, अत्रार्थे न मे सामर्थ्यम् ; गृहकलह कः समुदीरयेत् ? । अन्यत्तु यत्त्वं याचसे तत् तव समीहितं करोमि परं नैतत् । इत्युक्त्वा यक्षोऽदृष्टोऽभूत् । कुमारोऽपि यक्षोक्तं श्रुत्वा हर्ष- विषाद-विस्मया- आश्चर्यादिसङ्करभावं भजन चिन्तयति-'धिग् !, देवा अपि स्रयधीना एव दृश्यन्ते । अथवा मोहनीयं कर्म कं न मोहयति । सर्वेऽलब्धजिनागमहार्दा जीवा: कर्मायत्ताः सन्ति, नाऽत्र विस्मयः । अथ कृतप्रतिज्ञापालने क उपायो भवेत्!' इति क्षणं विमृश्य निर्णीतम्-'विना तपस्क्रियां नापर उपायः' यतो दुःसाध्यमपि कार्यं तपसा सिध्यति । उक्तं च"यदूरं यददुराराध्यं, यच्च दूरे व्यवस्थितम् । तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम" ||१|| १. 'नाहं वेद्मि' इत्याधिकः पाठः।
||४१७॥
in Education Intens
For Personal & Private Use Only
www.jainelibrary.org