Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य चरित्रम्
नवमः पल्लवः
॥४२४॥
यावद् नीतः । धर्मदत्तेनापि यथायोग्यं ताम्बूल-वस्त्रादि दत्त्वा ते सर्वेऽपि विसर्जिताः । ततः प्रत्यहं राजसभायां याति, राजापि दिने दिने मानवृद्धिं करोति ।
अथाऽन्यदा राज्ञा पृष्टम्- 'तव पार्वे कियद्धनं वर्तते ?' | धर्मदत्तेनोक्तम्-"स्वामिन् ! भवत्प्रसादेन षोडशकोटिधनमस्ति, परन्तु एकं महत्कौतुकमस्ति तच्छृयताम् पूर्वं हि वनान्तर्भवदादेशेन स्वर्णनरात् स्वर्ण बहुतरं मया यथेच्छं गृहीतम् । ततो भवतः पृथग्भूत्वा तेन स्वर्णेन व्यवसायं कुर्वता मया षोडश कोट्योऽर्जिताः। ततोऽत्रागतः । पुनरत्रापि जल-स्थलपथेषु व्यवसायः कृतः, परं वर्षान्ते लाभशुद्धयर्थं नाणकमेलने लेखकरणे च तावत्य एव षोडशकोट्य एवाऽदृश्यन्त, नाऽधिकं किञ्चिदपि | न्यूनाधिकव्ययकरणेऽपि एतावत्य एव तिष्ठन्ति। ततो वृद्धयर्थं बहुभिः प्रकारैरतिनिपुणतया व्यापारः कृतः, सर्वव्यापारिभिश्व व्यापारबाहुल्यं दृष्ट्वा स्वस्वचित्तेऽनुमितम्-'अस्मिन् वर्षे धर्मदत्तस्य चतसृणां पद्यानां वा धनकोटीनां वृद्धिर्भविष्यति' ; परन्तु मया लेख्यकः कृतस्तदा तु तावत्य एव । तावत्य एव जाताः, नाऽधिकं किश्चिदपि | पुनरतिसङ्कुचितव्ययेन कृपणगत्या व्यापारः कृतः, तदापिपुनर्महान् व्ययः कृतस्तदाऽपितावत्य एव। ततो भद्मोद्यमोऽहं यथायोग्य व्यवसायं करोमि, नाधिकम् । एतद्दृष्ट्वा मच्चित्ते महत्कौतुकमस्ति, तद् विनाऽतिशयज्ञानिनं को वक्तुं प्रभवेत् ?" | इत्येवं राज्ञोऽये निर्दम्भवार्ता कुर्वन्नस्ति तावता प्रतीहारेण सहाऽऽगत्य वनपालो राज्ञः प्रणामपूर्वकं विज्ञप्तिं कर्तुं लग्नः'स्वामिन् ! अद्य वसन्तविलासनाम्नि भवदीयोद्याने बहुभिर्वाचयमैः परिवृताः श्रीमद्धनसागरसूरयः समवसृताः सन्ति, निजाऽतिशयज्ञानेन च भव्यजनानुपकुर्वन्तो विचरन्ति' । इति तदुक्तं श्रुत्वा राजा धर्मदत्तश्य द्वावपि १. नगरे यशोवृद्धिः संजाता इत्यधिकः पाठः प्र.|२. लेखकरणे तु।३. मुनिभिः ।
॥४२४॥
Jain Education 12
For Personal & Private Use Only
Tww.jainelibrary.org

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496