Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्य
चरित्रम्
॥ ४२१ ॥
Jain Education
| स्वजनेभ्यो वर्धापनिकायां वस्त्रधना- Sऽभूषणादिकं ददौ । ततः स्वजना विविधसुखासन यान वाहनाऽधिरूढाः, | अनुपमवस्त्राभरणैरलङ्कृताः, विविधातोद्यानि वादयन्तोऽहमहमिकया धावन्तो, योजनं यावत् सम्मुखमागताः । अथ स्वजनादीन् जोत्कारपूर्वकं गाढमालिङ्गय मिलितः । परस्परं सुखक्षेमवार्ता पृष्टा । ततः कुलवृद्धान् अतिपरिचितांश्व जनान् सम्मानपूर्वकं स्वरथे संस्थाप्य, अन्यानपि यथायोग्यं वाहना-ऽश्वादिषु अश्ववारिक | कारयित्वा, बहुविधाडम्बरसहितः, सहस्रसङ्ख्यलोकपरिवृतोऽनेकवादित्रैर्वाद्यमानः सधवकुलवधूनिर्धवलमङ्गलानि गीयमानः प्रबलोत्साहपूर्वकं याचकजनेभ्यो दानं ददानः, त्रिपथ चतुष्पथ-राजपथेषु प्रतिपदं पुरवासिमहानैर्जेत्कारं क्रियमाणः स्वगृहमागतः । पूर्वजायया अक्षत-पुष्पादिभिर्वर्धापयित्वा गृहे नीतः । आस्थाने चागत्य स्थितस्तदा स्वजनैरन्यैः परिचिताऽपरिचितैश्चागत्य विविधवस्त्राऽऽभरण-स्वर्ण रूप्य| नाणकै रुपायनानि कृतानि तानि च गृहमर्यादया रक्षितुं योग्यानि रक्षितानि । तथा कुमारेणापि विविधदेशोत्पन्नवस्त्रादिभिर्यथायोग्यं ते 'सत्कृताः । अथ धनवती सुखासनाद् उत्तीर्य बहुविधवस्त्र| द्रव्यादिमोचनपूर्वकं पूर्वजायायाः पादयोः पतिता । तयाऽपि आशीर्वादं दत्त्वा गाढमालिङ्गिता । परस्परं सुख| समाधिपृच्छा कृता । सर्वेऽपि नगरवासिनः पूर्वाश्रितलोका ये यथा जानन्ति ते मिलनायागच्छन्ति, धर्मदत्तोऽपि | तान् मधुरालापपूर्वकं सम्मान्य तर्पयति । समस्तेऽपि नगरेऽतीव यशः प्रसृत्म्- 'दृश्यताम्, श्रीपतिश्रेष्ठिनः पुत्रः कीदृश: ?, पितुर्नाम वर्धितम् । पूर्वं क्षीणो भूत्वाऽपि स्वभुजाबलेन बहुधनमर्जयित्वा आगतः, कुलं च उद्योतितम् । सुपुत्रो भवति स कुलमुज्ज्वलयति । यतः
१. परिधापिता । २. ततो ।
For Personal & Private Use Only
नवमः पल्लवः
| ॥ ४२१ ॥
www.jainelibrary.org

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496