SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ नवमः पल्लवः ॥३९३ वेश्यया सह सारिकाभिर्दीव्यति, तान् दृष्ट्वाऽपि रङ्गाऽऽधिक्येन मर्यादां विहाय क्रीडति, तद् दृष्ट्वा तेऽल्पसमयं | तत्र स्थित्वा स्वस्वगृहं गताः । एवं ते प्रतिदिनमागच्छन्ति गच्छन्ति च । कतिपयदिवसानन्तरं दुरोदरिका अपि | वेश्यया निष्काशिताः । मातापितरौ तु प्रतिदिनं दीनारशतं प्रेषयतः । एवं कियत्सु दिनेषु श्रेष्ठिना जायां प्रत्युक्तम्-'अधुना कुमारम् आकारयामः यथा गृहस्थितः सुखं भुक्ते अस्य वधूरपि प्रसत्तिं भजते, आवामपि कतिपयदिनाद् अदृष्टं तं पश्यावः, । इति ध्यात्वा श्रेष्ठी गृहव्यापाराधिकारिणं महत्तमं प्रेषीत् । तेन तत्र गत्वा सबहुमानम् आकारणं कृतम्-“स्वामिन् ! ततो भवदर्शनाऽतुरो भवन्तमेवेच्छति , मातापि भवदर्शनोत्कण्ठिता प्रतिक्षणं भगवन्नामेव भवन्तं जपति । भवदागमनेन गृहशोभा वृद्धि प्राप्स्यति । मादृशाः सेवका अपि नित्यं भवतां मार्गं पश्यन्ति, 'कदाऽस्मत्स्वामी भद्रासनमलङ्करिष्यति ?' इति च प्रतिदिनं प्रतीक्षन्ते । लघुश्रेष्ठिन्यपि स्वाम्यागमनं समीहते । अतो गृहागमनं भवताम् अतीव भव्यतरमस्ति पश्यात्तु तथा रुचिर्भवताम्" | तदा कुमारेण सामर्षं वक्रदृष्टिं कृत्वा प्रोक्तम्-'वरं वरम्, अधुना त्वं याहि, क आगच्छति ? । अत्र स्थितानामस्माकं कियत्परिमिता बहवो वासरा गता यत् त्वं गृहागमनाय युक्ति-प्रयुक्तिभिः प्ररयसि ? । अतो याहि याहि, यदाऽस्माकमागमनं भविष्यति तदाऽऽगमिष्यामः । सर्वतस्त्वम् अतिनिपुणो यद् अस्माकं शिक्षा दातुमागतोऽसि !, अतो याहि, त्वं स्वकार्ये प्रगुणो भव, अस्मदीयं व्ययद्रव्यं शीघ्रं प्रेषय' । इत्युक्त्वा विसर्जितो महत्तमः | सोऽपि निराशो भूत्वा श्रेष्ठिगृहं गतः । तत्र तेन दम्पतिभ्यामुक्तम्-'तस्य मनस्तु चतुर्भिर्भागस्तस्यामेव लुब्धम्, अधुना तु नैव एति'। तच्छुत्वा श्रेष्ठी विषादमापन्नो जायां प्रवक्तुं लग्नः-प्रिये ! यन्मयोक्तं तद् अग्ने आगतम्। कीदृशोऽपि निपुणः पुरुषश्येद् वेश्यासक्तो भवेत् तदा Jain Education For Personal & Private Use Only w.ainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy