SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः पल्लव: सर्वस्वं गुणांश्च हारयति, दुर्बुद्धिं दुष्कर्म च उपचिनोति, | श्रेष्ठिन्या पुत्रमोहेणोक्तम्-'किं जातम् ?' नवीन: शिक्षितोऽस्ति, सद्यो रङ्गो लग्योऽस्ति कियत्यपि दिने आगमिष्यति । मार्गे तु आगतोऽस्ति, सर्वं भव्यं भविष्यति । द्रव्यव्ययभीरवो भवन्तो भयव्याकुला मा भवन्तु, यतोऽस्येवार्थ द्रव्यं मेलितमस्ति तद् अयमेव विलसति, तत्र का हानि: ? | धनं तु अधुनाऽ परिमितमस्ति, अधुनैव हृदयं सङ्कोच्य किं स्थिताः ?' | एवं श्रेष्ठिन्योक्तं श्रुत्वा श्रेष्ठी मौनं धृत्वा गृहकार्ये प्रवृत्तः । प्रतिदिनं भोगद्रव्यं पूरयति, कुमारस्तु गृहनामाऽपि न गृह्णाति । पुनः कियत्यपि काले गते आकारणाय भव्यजना: प्रेषिताः, परंपूर्ववद्यद्वा तद्वा सासूयम् उत्तरं दत्त्वा विसर्जिताः । एवं बहुवारम् आकारितोऽपि नागच्छति तदा तु दम्पती उभावपि निराशतां प्राप्तौ, तद्वियोगदुःखेन दुःखितौ दिनानि गमयतः, तथापि पुत्रमोहेन धनं पूरयत: । अन्येद्युः श्रेष्ठिनो देवतावचः स्मृतिमागतम्, तत् श्रेष्ठिन्यै कथितम्-'प्रिये ! देवतावचो नान्यथा भवति अतः पुत्रागमनाऽऽशा नैव कर्तव्या | अधुना तु आत्मचिन्ता कर्तव्या, तथा सद्गतिर्भवेत् । एवं ध्यात्वा दम्पती धर्मकरणाय समुद्यतौ संजातौ । दानादिधर्मचतुष्काराधनं यथाशक्ति अनुष्ठितम्, सप्तक्षेत्रेषु सहर्षं वित्तं व्ययितम् । अथ गृहभाराऽऽरोपणाय प्रधानपुरुषा आकारणाय गतास्तथापि नागतः । ततो धर्ममाराध्य पुत्रवियोगसशल्यौ दम्पती मृतौ, प्रेतकार्यकरणाय समस्तं नगरं मिलितं, परन्तु धर्मदत्तो नागतः । गृहे तु एकैव धर्मदत्ताभार्या स्थिता । तया सुकुलप्रसूतत्वात् कियदिनावधि तु धनं पूरितम् । रोक्यद्रव्ये क्षीणे श्वशुरपितृसम्बन्धि आभूषणादि प्रेषयति । तस्मिन्नपि क्षीणे रूप्य-ताम्रादिभाजनानि प्रेषयति, यत: कुलजा पत्युः प्रीतित्यागं न करोति । उक्तं च - ॥३९४॥ Jain Education in For Personal & Private Use Only alw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy