________________
श्रीधन्य चरित्रम्
नवमः पल्लवः
॥३९५॥
"पगुमन्धं च कुब्जं च कष्ठिनं व्याधिपीडितम ।
निःस्वमापदगतं नाथं न त्यजेत् सा महासती" ||१|| अथाऽक्कया भाजनानि दृष्ट्वा ज्ञातम्-'अस्य गृहं धनरिक्तं जातम्, अतो निष्काशनीयोऽयम् !' इति ध्यात्वा दास्यै शिक्षा दत्ता-'अयं निर्धनो जातोऽस्ति, तस्माद् रजःक्षेपणमिषेण त्वया निष्काशितव्यः' । दास्यपि गृहप्रमार्जनसमये धर्मदत्तायोक्तम्-'यूय बहिंप्रदेशे तिष्ठत, गृहं प्रमार्जयामि' | तच्छुत्वा स बहिर्गत्वा स्थितः । दास्यापि शयनगृहं प्रमाय॑ प्रमाय॑न्या रजः कुमारशिरसि क्षिप्तम् । तदा कुमारेण सकोपं दास्यै प्रोक्तम् -'रेरे कुटिले! अत्र स्थितोऽहं किं त्वया न दृष्टः ?, किम् आन्ध्यमागतं दृष्टौ ?'। दासी प्राह-"मम दृष्टौ नान्ध्यमागतं, परं त्वद्-हृदये आन्ध्यमागतं दृश्यते, यतो निर्द्रव्यः पुरुषो वेश्यागृहे विलासमिच्छति स हृदयान्धः । ह्यो दिने त्वद्गृहाद् भाजनान्यागतानि तद् न दृष्टम् ? । अतोऽत्र स्थितिकरणाशा निष्फला, यथारुचि गम्यताम्, साम्प्रतम् अत्र रक्षणाग्रहं न कोऽपि करिष्यति । यत उक्तम् -
"वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सर: सारसा, निर्द्रव्यं पुरुषं त्यन्ति गणिका मष्टं नपं मन्त्रिणः । पुष्पं पर्युषितं त्यन्ति मधुपा दग्धं वनान्तं मृगाः, सर्वः कार्यवशाउनोऽभिरमते तत्कस्यकोवल्लभः? ||१||
Main Education in
For Personal & Private Use Only
+
w.jainelibrary.org