________________
श्रीधन्य
चरित्रम्
॥ ३९६ ॥
Jain Education
एवं ज्ञात्वाऽपसर इतः प्रदेशात्' तच्छ्रुत्वा धर्मदत्तो विलक्षो जातः । गृहाच्च निर्गत्य चिन्तयति - 'हा धिग् वेश्यायाः स्नेहम् । यतः
"अधममध्यमनें तेर्डे अर्थ लेति नजड़ें, तरुणमन खेर्डे एकस्यूं एक भेडें । प्रियशिर रज रेडें वेशपाडें, खभेर्डे, विलगें जेह केडें तेहनुं नाम फेर्डे " ॥१॥ 'कः कोपः का प्रीतिर्नट-विटपुरुषहतासु वेश्यासु । रजकशिलातलसदृशं, यासां वदनं च जघनं च ॥१॥
इत्यादि चिन्तयन् स्व मुहुर्मुहुर्निन्दति । यथा- 'अहं विज्ञातशास्त्रोऽपि मूर्खजडवद् अनया विगोपितः, अस्याः पापिन्या अर्थं वृद्धसेव्यानां माता- पित्रादीनां सेवा न कृता, लोकव्यवहारोऽपि निर्लज्जीभूय त्यक्तः, केवलम् अपयशोभागी जातोऽहम् । अधुना कथं साधुकाराणां मध्ये मुखं दर्शयामि ?' इति स्वाऽज्ञानं पुनः पुनः स्मरन्, मार्गे श्रीपतिगृहं पृच्छन्, गृहमागतः । गेहं शिथिलीभूतं पतितं च पश्यति तावता प्रातिवेश्मिकमुखात् पितरौ मृतौ श्रुत्वाऽत्यन्तं खेदं प्राप्त उदासीनमना गृहान्तर्गतः । तत्र च अग्रत एकप्रदेशे मञ्चिकायां स्थितां प्रियां सूत्र | कर्तयन्तीं ददर्श, यतोऽबलानां प्रियविरहितानाम् इयमेवाऽऽजिविका । ततस्तस्याऽपि तं दृष्ट्वाऽनुमानेन निजपतिमुपलक्ष्य तत्प्रतिपत्तिश्चक्रे । यतः कुलवतीनाम् इमान्येव लक्षणानि -
"प्रहृष्टमानसा नित्यं स्थान मानविचक्षणा । भर्तुः प्रीतिकरा नित्यं सा नारी न पराऽपरा” ॥१॥ १. मातापित्रादिवृद्धसेव्यानां सेवा ।
For Personal & Private Use Only
नवमः पल्लवः
॥ ३९६ ॥
www.jainelibrary.org