SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य नवमः पल्लव: चरित्रम् ||३९२ अहं तु प्राणव्ययैरपि एनं न मुद्यामि | मम प्राणाधारोऽयमेव, अतो यूयं सर्वेऽपि गच्छत। मम जीवितव्यम् अयमेव | कुमारः कदापि भवदुक्त्या गन्तुं मनस्कुर्यात् परम् अहं कथं गन्तु ददामि ?, तदा तैः कुमारं प्रत्युक्तम्-'कुमार! इयम् अत्याग्रहं करोति, अद्यरात्रौ अत्रैव स्थातव्यम् ; भवद्वियोगविधुराम् इमां दुःखं दातुं न युक्तं, प्रभाते पुनरेष्यामः' कुमारेणोक्तम्-वरम् , गम्यतां तर्हि वयमत्रैव स्थिताः समः' । ततो दुरोदरिकाः सर्वेऽपि कुमार प्रणम्य श्रेष्ठिगृहं गताः, दम्पतिभ्यां च वर्धापनिका दत्ता-स्वामिनौ ! भवतो: कार्य संजातम् । भवत्पुत्रः स्वेच्छया कामपताकाया गृहे स्थितोऽस्ति, कामभोगवासना तीव्रतरा जाताऽस्ति, अतः कतिपयदिवसान् तत्र रक्षणीयः'। | इति श्रुत्वा श्रेष्ठिना तेभ्यो भूरिद्रव्यं दत्त्वा विसर्जिताः। कुमारः सुखभरमग्नस्तत्रैव स्थितोऽस्ति।रात्रौ वेश्याकुमारी विविधान् भोगान् भुआनौ वैषयिकजागरणोत्सवेनपाश्चात्यरात्रौ निद्रावशं गतौ । प्राभातिकनिद्रा हि अतीव मिष्टा भवति, तेन घटिकाचतुष्टयदिने चटिते तावुत्थितौ । कुमारो देहचिन्तादिकं कृत्वा आलस्यभृदेहो गवाक्षे स्थित आवासान्तर्गतवाटिकायां पुष्पादीन् निरीक्षते, तावता सा भव्यझझरिकां शुद्धजलेन भृत्वा, दन्तधावनं च लात्वा, कुमारसमीपमागत्य, 'स्वामिन् ! दन्तधावनं क्रियताम्' इति सस्मितमुक्त्वा मुखाग्रे स्थिता । तावता कुमारमातृकया गृहसेवकस्तच्छुद्धिनिमित्तं प्रेषितः । तेनागत्य, सुखप्रश्नं चाऽऽपृच्छय, किमपि द्रव्यादिन चेत् कार्यं तदा आनयामि' इत्युक्तम् । कुरेणोक्तम्-‘यावद्वयमत्र स्थिता स्म सतावद् नित्यं शतंदीनारा आनेतव्याः'। सेवकेन गत्वा मात्रे ज्ञापितम् | तयाऽपि सहर्षं दीनाराः प्रेषिताः | तावता द्यूतकारा अप्यागताः, तदा कुमारो ॥३२२॥ १. युष्मत्पुत्रः। Jain Education in For Personal & Private Use Only a w.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy