SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् | नवमः पल्लव: ॥३९१ परन्तु ते कुमारस्य चित्तेऽन्तरायकृत एव प्रतिभासन्ते । तैः सर्वैरपि ज्ञातम्-कुमारस्य चित्तं वनितापाशे पतितम्, | अधुना तु अस्माभिः सह प्रसत्त्या वार्तामपि करोति । अस्माभिर्यदर्थमुद्यमः कृतस्तत्तु संजातम् । प्रदोषे कुमाराऽत्रैव स्थास्यति, वयं तु श्रेष्ठिने वर्धापनिकां दत्त्वा बहुद्रव्यं ग्रहीष्यामः , I एवं परस्परम् एकान्ते मन्त्रयन्ति तावता पणाङ्गनासेवकैर्विज्ञप्तम् - 'रसवती निष्पन्ना' । ततः कुमारः स्नानमण्डपे नीत्वा, शतपाकादितैलेनाऽभ्यङ्ग कारयित्वा, सुगन्ध्युष्णजलेन स्नानं कारयित्वा, चन्दनादिना विलेप्य, भव्यवस्त्रा-ऽलङ्कारैश्य संभूष्य भोजनायोपवेशितः, दुरोदरिका अपि दूरत उपवेशिताः वेश्याऽपि कुमारसमीपे उपविष्टा | ततः कुमारेण नानासंस्कारनिष्पन्ना नानारसास्वादसंयुक्ता रसवती वेश्यया सह सानन्दमुपभुक्ता, तैर्दुरोदरिकैरप्युपभुक्ता । तदनु पुनश्वित्रशालायां गत्वा स्थितः, ते सर्वेऽऽप्यागताः। ततस्या विविधमादकद्रव्यगर्भितानि ताम्बूलवीटकानि यथायोग्यं सर्वेषां दत्तानि, तावता वासरान्तोऽपि प्राप्तुं लग्नः' । ततस्तैः कुमारस्य चित्तपरीक्षणार्थमुक्तम्'स्वामिन् ! वासराऽवसानो भवितुं लग्नः' । एतद् वचनं कुमारस्य कर्णे तप्तत्रपुसेचनाप्रायं लग्नम् । कुमारेण तच्छुत्वा औदासीन्ययुक्तं मुखं कृत्वा न किमपि प्रत्युक्तम् । तैतिम्-' अस्माभियक्तं कुमारस्य प्रतिकूलतया लग्नम् अतोऽधुना एनं विमुच्य गम्यते' । ततस्तैर्वेश्यायै गदितम्-'कुमारस्य चित्तं तु त्वया एकस्मिन्नेव दिने वशीकृतम् , अतस्त्वया विचारपूर्वकं विज्ञप्तिं कृत्वा रक्षणीयः, यतो वयं यामः,' | ततस्ते पुनरपि कुमारस्य गृहगमनावसरं ज्ञापयितुं लग्ना, तदाऽन्तरा सा तत्रागत्य साक्रोशं प्रोक्तुं लग्ना-'कुमारस्तु अत्रैव स्थास्यति, किं सर्वेऽपि मम मारणाय प्रवृत्ताः ? | अधुनातु मां कुमारं विना क्षणमात्रं न चलति, यूयं हि दुःखं दातुमत्रागताः। १. मम। ॥३९१॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy