SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥३९०॥ ऽत्तरादिमहामूल्यैः पदार्थ: कुमारस्य शरीरं सुवासितं कृतं, गुलाबादिकानां गन्धजलाच्छोटनं च कृतम् । ततोऽनेकानि नारङ्गा-ऽऽम्र दाडिमाऽीरादीनि सद्यः परिपक्वानि मधुरस्वादुफलानि अग्रे दौकितानि | ततो द्राक्षा-ऽक्षोटक-बदामादीनि विविधदेशाऽऽगतानि मेवा' इति संज्ञकानि अग्रतो मुक्तानि | ततो मादकराजद्रव्यजातिफला-ऽगुरुकस्तूर्य-भ्रक-काश्मीरज- सितोपलादिनिष्पन्नस्य कामवृद्धिकारकस्य पाकस्य कटोरको भृत्वाऽग्रे स्थापितः । ततः पुष्पताम्बूलकादिध सौगन्धिकानि बीटकानि कुर्वती, अन्तराऽन्तरा मिष्टानि प्रीतिवर्धकानि कामोद्दीपकानि वचनानि, च वितन्वती, षोडशशृङ्गारभरभारिता हाव-भावांश्व प्रकाशयन्ती मुखाग्रे स्थिता। कुमारोऽपि तस्या हाव-भाव-सेवा- चातुर्यमग्नः स्थितः, तावता सा अतिमिष्टललित-सुकुमारकोकिलामधुरैर्वचनैः प्रेरयति-'स्वामिन् ! इदं गृह्यताम् , इदं भव्यतरमस्ति, इदं तेजस्कृत् , इदं बलकृत् , इदं तु बुद्धिवर्धकम् इदं हि माङ्गल्यरूपं प्रथमत्वात् शकुनकृत् , इदं तु भोक्तव्यमेव भवति । एवं मिष्टवचनैः संतृप्यता कुमारेण यथारुचि आस्वादितम् । ततः स्वस्थीभूते नृत्यारम्भो मण्डितः। अनेकराग-तानाऽभिनवकामोद्दीपकहाव-भावैः कुमारो रसैकमग्नः कृतः। तत: कुमारस्य प्रथमयौवनोद्भवविकारैः, अतिमादक द्रव्यजनितपाकादिभक्षणेन, अन्तर्धर्मभेदकैः कटाक्षबाणैश्य कामोद्दीपनं संजातम् । पणाङ्गनया तज्ज्ञात्वा भूसंज्ञया सर्वेऽपि दुरोदरिका उत्थापिताः, ते च किमपि मिषं कृत्वा चित्रशालाया बहिर्गताः । ततो विजनत्वाद् यथेच्छम् आलिङ्गनादिस्पर्शसुख दत्त्वा कुमारो विह्वलीकृतः । ततः कुमारेण सुरतसुखं प्रथमं तत्राऽनुभूतम् । तदनुभवनाच्च कुमारस्य चित्तं पणाङ्गनैकरसिकं संजातम्, तां क्षणमपि उत्थातुं न ददाति, तामेवैकां पश्यति ।।3 ततो वेश्ययाऽवसरं ज्ञात्वा नानाप्रकारविचित्रा दिव्य रसवती कारिता | पुनर्दुरोदरिकाः सर्वेऽपि मिलिताः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy