SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥३८९॥ | ‘पश्यतु भवान् सेवकानां प्रयासम् । यो भोगनामाऽपि नाऽगृह्णात् स स्तोकदिनमध्ये भवन्मेलितां सम्पदं सर्वामपि सफलतां नेष्यति, तद् दृष्ट्वा भवदिच्छा पूर्तिर्भविष्यति, तदा च सेवकानां प्रयासः श्लाघितव्यः, । दम्पती तच्छुत्वाऽतीव हर्षितौ। 'अथ दुरोदरिकमध्यात् कैश्विद् अग्रतो गत्वा कामपताकाया अग्रे निवेदितं यद्-'अद्य नगरप्रेष्ठिनः पुत्रं त्वद्गृहे आनेष्यामः, अतस्त्वया तस्याग्रऽतीव स्वकलाकौशल्यं दर्शयित्वा तस्य चित्तमार्वनीयम् । कुमारो यादृशस्तादृशो न सर्वकलासु कुशलोऽस्ति, सर्वशास्त्रणां हार्दज्ञोऽस्ति, अतो दत्तावधानतया सर्वकला दर्शनीया। चेत् प्रसन्नो जतस्तदाऽयं जङ्गमकल्पवृक्षोऽस्ति, ईप्सिताद् अधिकतरदायकोऽस्ति' ! तयोक्तम्-'शीघ्रमानीयतां, | पश्चात् सर्वे ज्ञास्यन्ति । मुनिमार्गस्थिता मुक्तिपुरप्रवेशार्हा अपिपणाङ्गनाभिः सर्वं त्याजयित्वा कामभोगैकतानाः कृताः सन्ति तेषामग्रेऽयं कियन्मात्रः ?, अयं तु वणिक्पुत्रः सर्वं भव्यं भविष्यति, । इत्युक्त्वा ते विसर्जिता : । 'अथ कुमारो रथे समारुह्य तैः परिवृतस्तस्या आवासे गतः । तयाऽपि कुमारागमनश्रवणमात्रेणोत्थाय, सुवर्णरत्न-मुक्ताफलैरअलिद्वयं भृत्वा, द्वारदेशं यावद् आगत्य, कुमारं वर्धापयित्वा, इतः पादोऽवधार्यताम्, भवच्चरणोपासिकाया गृहं पवित्रीक्रियताम्; महती कृपा पूज्यपादानाम, अद्य ममाङ्गणेऽनभ्रा अमृतवृष्टिः संजाता, अद्य ममाङ्गणे कल्पवृक्षः फलितः, अनाहूता सुरसरिद् आगता यद्नगरमहेभ्यकुलदीपकेन कुमारवरेण अस्मद्गृहमलडकृतम्, इति वचनामृतै : सन्तर्प्य, 'खमा खमा' इति शब्दं कुर्वत्या कुमारो गृहान्तर्हतः । यत्र यत्र पश्यति तत्र तत्र मुकुरादिशोभया साक्षादेव विमानभ्रान्तिमातनोति। तत्र प्रथमत: कामसेना कस्तुरी-चन्दना ॥३८९॥ १. ततो। in Education interest For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy