________________
श्रीधन्य
चरित्रम्
॥ ३८८ ॥
Jain Education Int
| कुमारेणोक्तम्- कथम् ईदृशं नृत्यं चित्तं नाह्लादयेत् ? पुनः 'कदापि कारयिष्यामः' । तदैतेनोक्तम्- 'अनया नाटकं तु भव्यं कृतं परं कामपताकानया नाटकस्य षोडशांशमपि नाऽर्घति' कुमारेणोक्तम्- 'सा वाऽस्ति ?' | तेनोक्तम्- 'आत्मीयपुरे रामन्दिरसदृशे महावासे परिवसति । स्त्रीणां ये केचन गुणास्ते सर्वेऽपि अस्या अङ्गेऽहमहमिकया परिवसन्ति, यस्या दर्शनमात्रे देवाङ्गनाभ्रमं चित्तमातनोति । साऽपि भवत्सदृशानां गुणवतामग्रे एव स्वकलां दर्शयति, नान्येषां यत्र त्रापि । स्वामिन् ! किं बहु वर्ण्यते ? भवत्सदृशदर्शकस्याऽग्रे यदा सा नृत्यं | करोति तदा यो रस उत्पद्यते तस्य वर्णनं कः कर्तुं शक्नुयात् ? । स्वाम्यपि ज्ञास्यति यद् अस्याः सङ्गः क्षणमात्र भवतु । कुमारेणोक्तम्- 'पुरा तस्या नाटकं युष्माभिः कदापि दृष्टमस्ति ?' । तैरुक्तम्- 'अस्मादृशानां मन्दभाग्यानां कुतो दर्शनाऽवसरः ? परन्तु एकदा वर्षद्वयादर्वाग् राज्ञाऽत्यादरेण नृत्यं कारितं तदा भवादृशानां पुण्यवतां पृष्ठे गत्वा दृष्टम्, तद् अद्यापि न विस्मृतिं याति । अधुना भवच्चरसेवाप्रसादेन बहुदिनाभिलाष | मनोरथपूरणप्रत्ययो जातोऽस्ति, स च स्वामिना पूर्यताम् । साऽपि भवतां चातुर्यं विद्वत्वं च दृष्ट्वा परमप्रसत्तिपात्रं भविष्यति । यदि भवतां रुचिः स्यात् तदा श्व एव तद्गृहे गम्यते । भवद्गमनयोग्यं स्थानमस्ति परं यथा | रुचिर्भवताम् । इति कैतवकृतां वार्तां श्रुत्वा सानन्दः कुमारः प्राह- 'श्व एव गमिष्यामः' । तैरुक्तम्- 'साधु साधु, महान् प्रसादः पूर्णा अस्मादृशानां वराकाणां मनोरथाः' । एवमालापं कुर्वन्तो गृहमागताः । रात्रावपि कुमारस्याऽभ्यर्णे स्थित्वा तस्या रूप-सौन्दर्य चातुर्य- गीतगानकौशल्यादिवर्णनं कृत्वा कुमारस्य चित्तं तस्या मिलनाऽभिमुखं कृतम् । प्रगेऽवश्यं यास्याम' इति निश्चित्य सुप्ताः । प्रभाते संजाते प्रातःकृत्यानि कृत्वा कुमारेण स्वयमेवोक्तम्- रथं सज्जीकुरुत, । तदैकेन दुरोदरिकेण गृहमध्ये गत्वा श्रेष्ठिने सर्वं निवेदितम् । जल्पितं च
For Personal & Private Use Only
नवमः
पल्लवः
| ॥ ३८८ ॥
w.jainelibrary.org