________________
बावश्यक नियुक्तिदीपिका ॥
विंशतिस्थानकादि।
अरिहंत सिद्ध पर्वयण,गुरु थेरै बहुस्सुए तबस्सीसुं। वच्छल्लया एएसिं,अभिक्खनाणोवओगे य॥१७९॥ .. अर्हन्तो जगद्गुरवः, सिद्धाः कृतकृत्याः, प्रवचनं चतुर्धा सङ्घः, गुरुः धर्मदः, स्थविरो जात्या पष्टिवर्षीयः, पर्यायाविंशतिवर्षदीक्षितः, श्रुतात्समवायभृत्, बहुश्रुतः सूत्रभृतोऽर्थभृत्ततोऽप्युभयभृत, अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विनः,
एकारादि विभक्तिव्यत्ययश्च प्राकृतत्वात् , एषां वत्सलता अनुरागः यथास्थगुणोत्कीर्तना)पचाररूपा, तथाऽभीक्ष्णं ज्ञानोप| योगः ॥ १७९ ॥ दंस' दसण विणएँ आवस्सैए य, सीलव्वैए निरइआरो। खणलव तैवच्चियोंए, वेयविच्चे समाही य ॥१८॥ ____दर्शनं सम्यक्त्वं, विनयो ज्ञानादिविषयः, आवश्यकं अवश्यकार्यः संयमव्यापारः, शीलान्युत्तरगुणाः १८००० शीलाङ्गानि, व्रतानि मूलगुणाः, एषु सम्यक्त्वादिषु निरतिचारः, क्षणलवादेः संवेगभावना, तथा तपः, त्यागो द्रव्यतोऽकल्पानां अन्नपानोपधीनां वर्जनं, कल्पानां यतिषु दानं, भावतः क्रोधादेस्त्यागः, वैयावृत्यं आचार्यो १ पाध्याय २ स्थविर ३ तपस्वि ४ ग्लान ५ शैक्षक ६ साधर्मिक ७ कुल ८ गण ९ सङ्घा १० नामिति दशधा, एकैकं च भक्त १ पाना २ सन ३ वस्त्रौ ४ षधदानो ५ पकरणप्रत्युपेक्षा ६ पादप्रमार्जन ७ मार्गसाहाय्य ८ दुष्टस्तेनादिरक्षण ९ कायिकी १० संज्ञा ११ श्लेष्ममात्रकापण १२ दण्डकग्रहण १३ भेदात्रयोदशधा, साधर्मिका अन्यसामाचारीकाः साधवः, सङ्घः सुविहितसर्वसाधुगणजः । एषु | तपस्त्यागादिषु समाधिररक्तद्विष्टतया प्रवृत्तिः, गुर्वादीनां कार्यकरणात् समाधिकरणं च ॥ १८० ।। ' अपु
॥५३॥
Jan Education Inter
For Private & Personal use only
|www.jainelibrary.org