Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 411
________________ Jain Education Inter sपि चतुर्द्धा योजनाकरणं । काययोजनाकरणं तु सप्तधा - औदारिकयोजनाकरणं, औदारिकमिश्रयोजनाकरणं, एवं वैक्रियं वैक्रियमिश्रं, आहारकं आहारकमिश्र, कार्म्मणकाययोगकरणमिति । तत्रौदारिकयोजनाकरणं तत् यदौदारिकदेहव्यापारेण जीवः कर्म्म चिनोति । औदारिकमिश्रं तद् यदौदारिकदेही लब्ध्या प्रयत्नवशाद्वैक्रियादिदेहं कृत्वा पुनस्तं संहरन्नौदारिके तस्मि प्रदेशव्यापारं करोतीति । एवं वैक्रियमिश्रादीन्यपि । कार्म्मणकाययोजनाकरणं अन्तरगतौ शरीराऽपर्याप्तिं यावत्सर्वजीवानां स्यात् । स्वस्थाने प्रत्येकं मनोवाक्कायरूपे तेषां योजनाकरणानां भेद उक्तरीत्या क्रमेण चतुर्द्धा चतुर्द्धा सप्तधा चैव ॥ १०३२ ॥ ' भाव ' भावसुअसद्दकरणे, अहिगारो इत्थ होइ नायवो । नोसुअकरणे गुणजुंजणे, अ जह संभवं होइ ॥ अत्र अधुना भावश्रुते तस्य च शब्दकरणे भावपूर्वं प्रकाशपाठे श्रुतसामायिकस्याधिकारः कर्त्तव्यो भवति । नोश्रुतकरणे नोश्रुतकरणमाश्रित्य गुणकरणे योजनाकरणे च यथासम्भवं भवत्यधिकारः । तत्र गुणकरणे चारित्रसामायिकस्यावतारस्तपःसंयमगुणात्मकत्वाच्चारित्रस्य, योजनाकरणे तु सत्यासत्यामृषामनोवाग्योजनारूपे चतुर्णां सामायिकानामवतारः । औदारिकका योजनायां श्रुतचारित्रसामायिकयोरवतारः, क्रमाद् भङ्गिकश्रुतगुणने समितिगुप्तिपालने च सति ।। १०३३ ॥ अथ सप्तभिरनुयोगद्वारै: सामायिककरणमाह ' कया ' कोकणयं के अदबेसु कीरई वाँवि । काहे व कारओ नयओ, करणं कईविहं (च) कँहं ॥ ३५ For Private & Personal Use Only सामायिककरणम् ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460