Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
दवथओ भावथओ, दवथओ बहुगुणत्ति बुद्धि सिआ।अनिऊणमइवयणमिणं, छज्जीवहिअंजिणा बिंति ॥ भावस्तवा
द्रव्यस्तवो भावस्तवश्च द्वावपि पुण्यार्थमधिकृतौ । तथापि ' द्रव्यस्तवो बहुगुणः ' एवं चेद्बुद्धिः स्यात् , इदं अनिपुणम- धिक्यम् ।। तीनां वचनं यतो जिनाः षड्जीवहितं ब्रुवते ॥ १९३ ॥ तथा 'छज्जीव' छज्जीवकायसंजमु, दवथए सो विरुज्झई कसिणो।तो कसिणसंजमविऊ, पुप्फाईअंन इच्छंति॥१९४॥
षड्जीवनिकायानां संयमा-संघट्टनादित्यागः, द्रव्यस्तवे स कृत्स्नः पूर्णो विरुध्यते, ततः कृत्स्नसंयमविदः साधवः | पुष्पादिकं द्रव्यस्तवं नेच्छन्ति ॥ १९४ ॥ भाष्यं 'अक' अकसिणपवत्तगाणं, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणो, दवथए कूवदिटुंतो ॥१९५॥ |
अकृत्स्नप्रवर्तकानां अधिकारात्संयमे, तत एव विरताविरतानां एष द्रव्यस्तवो युक्तः । संसारस्य प्रतनुकरणः क्षयकरः शुभानुबन्धित्वात् प्रभूततरनिर्जराहेतुत्वाच्च । तत्र द्रव्यस्तवे कूपदृष्टान्तो यथा-तृषामलाद्या” लोकः कूपं खनन् तृषापंकादिना विशेषतो बाध्यते तथापि तदुत्थाम्भसैव तृषाद्यपनयत्यन्ये च सुखिनः स्युः, एवमिहापि यद्यपि सावधं तथापि तत एवैषां धर्मध्यानं ॥ १९५ ॥ अथ सूत्रालापकनिष्पन्न निक्षेपस्यावसरः, स चानुगमे सति स्यात् , अनुगमो द्विधा, सूत्रानुगमो नियुक्त्यनुगमश्च। तत्र नियुक्त्यनुगमस्त्रिधा-निक्षेपोपोद्घातसूत्रस्पर्शिकभेदात , तत्राद्योऽनुगतो वक्ष्यते च, द्वितीयस्तु ' उद्देसे निद्देसे' इत्यादि गाथाभ्यां ज्ञेयः । तृतीयस्तु सूत्रानुगमे सति स्याद्यतः 'सुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो ।
Jain Education Internal
For Private & Personal use only
SR.sww.jainelibrary.org

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460