Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
द्विविधो
आवश्यकनियुक्तिदीपिका॥
द्योतः॥
॥२२२॥
गती द्वे, अस्पृशद्गति, स्पृशद्दतिश्च । तत्र इह भवे जीवो यावत्स्वाकाशप्रदेशेष्वगाढस्तावत एव प्रदेशानूर्ध्वमपि ऋजुश्रेण्याऽव| गाहमानस्य प्रदेशान्तराणि समयान्तरं चास्पृशतो या गतिः सा अस्पृशद्गतिः, सा तु सिद्धानामेव । एतल्लक्षणद्वयाभावे स्पृशद्गतिः सा सर्वसंसारिणामेव स्यात् । वर्णादीनां भेदा एकगुणकृष्णादयः । इयता" दवगुण' इति व्याख्यातं, परिणामांश्च बहुविधान् श्वेतवर्णादिसुगन्धादिपुद्गलानां कृष्णवर्णादिदुर्गन्धादिपुद्गलानां भावपरिणमनरूपाननेन तु भावपरिणामेति द्वारं । | शेषद्वारद्वयं तु प्राग्व्याख्यातमेव । पर्याय एव लोकः पर्यायलोकस्तं ॥ २०४ ॥ 'आलु' | आलुक्कइ अ पलुक्कइ, लुक्कइ संलुक्कई अ एगट्ठा। लोगो अट्ठविहो खलु, तेणेसो वुच्चई लोगो ॥ |
आलोक्यते इत्यालोकः, प्रलोक्यते इति प्रलोकः, संलोक्यते इति संलोक एकार्थिका एते शब्दाः यतश्चालोक्यते | इत्यादि, तेन लोकशब्दार्थकथनेनैष नामलोकादिरष्टविधः खलु लोकः सामान्यतो लोक उच्यतेऽत्र लोकोद्योतकरत्वे सर्वे लोका अधिक्रियन्ते ॥ १०६५ ।। अथोद्योतमाह 'दुवि' दुविहो खलु उज्जोओ, नायवो दवभावसंजुत्तो। अग्गी दव्वुजोओ, चंदो सूरो मणी विज्जू॥१०६६॥ __ उद्योत्यते प्रकाश्यते वस्त्वनेनेत्युद्योत उद्योतकारी वस्तुविशेष इत्यर्थः, स द्विधा द्रव्यभावाभ्यां संयुक्तः द्रव्योद्योतो | भावोद्योतश्चेति । अग्निद्रव्योद्योतः, 'विज्जू' विद्युत् , अग्न्यादीनां घटादिद्रव्योद्योतनेऽपि तद्गतनित्यानित्यादिसम्यकस्वरूपानुद्योतनात् ॥ १०६६॥ नाणं'
॥२२२॥
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460