Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 437
________________ ज्ञानक्रियानयो॥ ग्रहीतव्ये उपादेयेऽग्रहीतव्ये हेये चैवार्थे ज्ञाते सति यतितव्यं मुक्त्यर्थे यत्नः कार्यः, अतो ज्ञानमेव मुक्त्यङ्गं अज्ञानात प्रवृत्तस्य मुक्त्यभावात् , यतः 'पढमं नाणं तओ दया०'गीयत्थो य विहारो०' एतदेव गाथादलं क्रियानयार्थे याख्यायते । ज्ञाते ग्रहीतव्येऽग्रहीतव्ये च यतितव्यमेव क्रियायां, ततः क्रियैव मुक्त्यङ्गं अक्रियस्य मुक्त्यभावात् , 'यतः क्रियैव फलदा पंसां न ज्ञानं फलदं मतं । न हि स्त्रीभक्ष्यमोगज्ञो ज्ञानादेव सुखी भवेत् ।।' तथा 'सुबहुं पि सुयमहीयं' इति योऽन्याऽन्यविभागेनोपदेशः स नयो नाम, ज्ञाननयः क्रियानयश्चेत्यर्थः ।। १०६१ ॥ अथाचार्यः 'सो' सवेसिपि नयाणं, बहुविहवत्तव्वयं निसामित्ता। तं सवनयविसुद्धं, जं चरणगुणदिओ साह ॥१०६२॥ सर्वेषामपि नयाना बहुविधां वक्तव्यतां निशम्य तत्सर्वनयानां विशुद्ध सम्मतं यच्चरणगुणस्थितः साधः, चरणं चारित्रं गुणो ज्ञानं तयोः स्थितः साधुरिति मोक्षसाधकः, यतः 'संजोगसिद्धी' इत्यादि ॥१०६२।। इति सामायिकनियुक्तिः सम्पूर्णा । नित्यं( यस्मात् )जगाद भगवान् सामायिकमेव निरूपमोपायं । शारीरमानसानेकदुःखनाशस्य मोक्षस्य ॥ १॥ इति श्रीमाणिक्यशेखरसूरिविरचितायामावश्यकनियुक्तिदीपिकायां सामायिकाध्ययनं समाप्तम् । अथ चतुर्विंशतिस्तवः, यतश्चणि:-'सामायिकव्यवस्थितेन पत्तकालं उक्त्तिणादीणिवि अवस्स कायवाणि ' तत्रानन्तराध्ययने सावद्ययोगविरतिरूपं सामायिकमुक्तं इह तु तदुपदेष्ट्रणामहेतामुत्कीर्तनं कार्यमित्यस्याध्ययनस्य चत्वार्यनुयोगद्वाराणि स्युस्तत्रोपक्रमः सामायिकाध्ययनवद्ज्ञेयो निक्षेपस्तु त्रिधा ओघनिष्पन्नः, नामनिष्पन्नः, सूत्रालापकनिष्पन्नश्च । तत्रौ For Private & Personal Use Only Jain Education www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460