Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 434
________________ आवश्यक- नियुक्तिदीपिका ॥ द्रव्यभावप्रतिक्रमणे दृष्टान्तौ ॥ ॥२१६॥ तिविहेणति न जुत्तं, पडिवयविहिणा समाहि जेण अत्थविगप्पणयाए, गुणभावणयत्ति को दोसो?॥ ___ 'तिविहेणं 'त्यत्र त्रिविधेनेति न युक्तं उपलक्षणत्वात् त्रिविधमपि, किमित्याह-येन प्रतिपदविधिना समाहितं, प्रतिपदं अस्यार्थ उक्तः, तद्यथा 'मणेणं 'इत्यादि, अत्रोच्यते-अर्थविकल्पनया गुणभावनयेति वा को दोषः अर्थविकल्पनार्थ भेदोपदर्शनं, गुणभावना-गुणाभ्यासः, ताभ्यां हेतुभ्यां, कोऽर्थः-एवं ह्युक्ते सामान्यविशेषरूपत्वं सर्वस्याप्यर्थस्य दर्शितं स्यात् , यतः 'तिविहं तिविहेणे ति सामान्यरूपता दर्शिता 'मणेणं' इत्यादिना तु विशेषरूपता । तथा एवमाख्याते यः सामायिकरूपो गुणस्तस्य पुनः पुनराख्यानात्मिका भावना स्यात् , भावना च कर्मक्षयहेतुरिति । 'तस्स भंते !' इति पुनर्भदंतशब्दग्रहणं अनुस्मरणार्थे, सर्वक्रियान्ते गुरोः प्रत्यर्पणं कार्यमिति ज्ञप्त्यर्थं च । यदुक्तं भाष्ये 'सामाइयपचप्पणवयणो वाऽयं भदंतसहोत्ति । सवकिरियावसाणे भणियं पञ्चप्पणमणेणं । १।' सामायिकप्रत्यर्पणवचनोऽयं भदन्तशब्द इति सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति भणितं ॥ १०५४ ॥ प्रतिक्रमामीति प्रतिक्रमणं मिथ्यादुःकृतमुच्यते, अतस्तन्निक्षेपमाह 'दव्वं' दवम्मि निण्हगाई, कुलालमिच्छंति तत्थुदाहरणं। भावंमि तदुवउत्तो, मिआवई तत्थुदाहरण।१०५५॥ द्रव्यप्रतिक्रमणं प्रतिक्रमणप्रतिक्रमित्रोरभेदोपचाराद् निवादिः, तत्र द्रव्यप्रतिक्रमणे कुलालमिथ्यादुःकृतं उदाहरणंयथा क्वापि कुलालकुट्यां साधुषु स्थितेष्वेकः क्षुल्लः कर्करैर्भव्यभाण्डानि काणानि कुर्वन् कुलालवारितो 'हा मिथ्यादुःकृत'मिति वदन पुनः पुनः छिद्रयति । कुलालेन कर्णमोटं दत्वा क्षुल्लवारितेन ' हा मिथ्यादुःकृतमि 'ति वदता पुनः पुनः करें | Pl॥२१६॥ Jain Education inte For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460