Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
सामस्य निक्षेपाः॥
कार्याणि इत्यामन्त्रणवचनाद् ज्ञापित, येन सर्वेषामावश्यकानां सामायिक आदौ मतं आदिमतं, भदंतशब्दश्च यत्तदादौ, तेनानुवर्तते, ततः करोमि भदंतेद 'मिति सर्वावश्यकेषु । 'किच्चाकिच्चं गुरवो विदन्ति विणयपडिवत्तिहेउं च । ऊस्सासाइ पमोत्तुं तदणापुच्छाए पडिसिद्धं ।७।' कृत्यं अकृत्यं चेदं इति गुरवो विदन्ति, तथा विनयप्रतिपत्तिहेतुं च, उच्छ्वासादि मुक्त्वा तदनापृच्छया सर्व कार्य प्रतिषिद्धं । 'गुरुविरहमिवि ठवणा, गुरूवएसोवदंसणत्थं च । जिणविरहंमिऽवि जिणबिंबसेवणामंतणं सहलं । ८।' गुरुविरहे गुरोरभावेऽपि गुरुस्थापना गुरूपदेशोपदर्शनार्थमेव । जिनविरहे जिनाभावेऽपि जिनबिम्बसेवनामन्त्रणं सफलं स्यात् । 'रन्नो व परोक्खस्सवि जह सेवा मंतदेवयाए वा । तह चेव परोरकस्सवि गुरुणो सेवा विण यहेउं । ९।' राज्ञो वा परोक्षस्याऽप्रत्यक्षस्यापि यथा सेवा मंत्रदेवताया वा अप्रत्यक्षाया वा अपि सेवा तद्भक्तिरूपा क्रियते, तथैव परोक्षस्यापि गुरोः सेवा विनयहेतुः । यद्वा 'भंते' इत्यात्मन एवामन्त्रणं, यथा सर्वक्रियासूपयुक्तः स्याद् , यद्वा ज्ञानदर्शनचारि. त्राणि गुरूणि 'तेसु गुरूसन्नं काऊण भण्णइ करेमि भंते ! सामाइयं' इति ॥ १८५ ॥ गतं ' भए अ अंते' पदद्वयं द्वा० ३॥ अथ सामायिकं 'साम' सामं समंचे सम्मं, इगैमिति सामाइअस्स एगट्ठा।नामं ठवणा दविए, भावंमि अतस्स निक्खेवा॥
सामं, समं, सम्यक्, एषामने इक इति प्रत्येकं पदं, तच्च देश्युक्त्या प्रवेशार्थे वर्चते, अत्र पदयोजनां स्वयमग्रे वक्ष्यति । तथा सामायिकस्य एकाथिकानि वाच्यानि, तेषां सामादीनां नामादिभिर्निक्षेपः स्यात् ॥ १०३७ ।। नामस्थापनासामादीनि मुक्त्वा द्रव्यसामादीन्याह 'महु'
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460