Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 419
________________ भए अ अंते' इति पदद्वयस्य व्याख्या ॥ एवं ककारलंभो, सेसाणवि एवमेव कमलंभो । एअंतु भावकरणं, करणे अ भए अजं भणिअं ॥ ककारस्य लाभः। शेषाणामपि वर्णानामेवमेव क्रमाल्लाभो ज्ञेयः। यदि भावहीना अज्ञाना वा 'करेमि भंते! सामाइयं' इत्यादि पठन्ति परं तेषां क्षयोपशमः कोऽपि तादग् न, परं यः सावधान एकमना अर्थानुगतं सूत्रं पठति तस्यैवं कर्मक्षय- लाभः स्यात् । इह प्रागुपक्रमद्वारे क्षयोपशमात्सामायिक जायते इत्युक्तं, उपोद्घाते तु कथमितिद्वारे क्षयोपशमप्राप्तिः कथं । स्यादति पृष्टे 'दिद्वे सुए अणुभए' इत्यायुत्तरं चोक्तं, अत्र तु कथं प्रश्ने केषां कर्मणां क्षयोपशम इति विभागोत्या पौनरुत्यं न ज्ञेयं । ' एअंतु भावकरणं' ति एतदेव पूर्वोदितं यत्सामायिककरणं तद्भावकरणं । एवं च ' करणे अ भए अ' इत्यत्र यत्करणमिति द्वारं भणितं तद् व्याख्यातं । एतद्व्याख्यानाच सूत्रेऽपि करोमीति व्याख्यातं ॥१०३५ ॥ गतं मूलद्वारगाथायाः ' करणे' इति द्वारं १ । अथ ‘भए अ अंते ' इति व्याख्याति ' होइ' । होइ भयंतो भयअंतगोअ, रयणा भयस्स छन्भेआ।सबंमि वन्निएऽणुक्कमण अंतेवि छब्भेआ॥१८४॥ ___ भदंतः कल्याणकरः, प्राकृते (आमत्रणे) भंते ! इति स्यात् । यद्वा भवान्तकृत्त्वाद् भवान्तस्तथा भयस्यान्त इति च । तत्र भये नामस्थापनाद्रव्यक्षेत्रकालभावैः षड्भेदाः षट्प्रकारा रचनेति निक्षेपः स्यात्तत्र नामादिषु सर्वविभक्त्यन्तेष्वर्थयोजनया नामभयादि स्वधिया ज्ञेयं । सर्वस्मिन्नामादिपविधे भये वर्णितेऽन्तेऽन्तशब्देऽपि नामादिषड्भेदाः स्युः, नामान्तस्थापनान्तादि स्वधिया ज्ञेयं ॥ १८४ ॥ 'एवं' Jain Education Inter30 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460