Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 423
________________ Jain Education In Te 1 इति पदार्थे उक्ते चालनामाह 'को का को कारओ ? करंतो किं कम्मं ? जं तु कीरई तेण । किं कारय करणाण य, अन्नमणन्नं च ? अरकेवो ॥ १०४१॥ 'करेमि भंते! सामाइयं' इत्यत्र कः कारकः इत्याह ? सामायिकं कुर्वन्नात्मैव । किं कर्म्म १ इत्यत्राह - यत्तु क्रियते तेनात्मना, तच्च गुणरूपं सामायिकमेव, तुशब्दात् किं करणं १ इति प्रश्ने उद्देशादिचतुर्धेत्युत्तरं । एवं सत्याह 'किं कारककरणयोश्चशब्दात्कर्म्मणश्च मिथोऽन्यत्वमनन्यत्वं वा ? अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावस्तदन्यत्वात् मिध्यादृष्टेरिख, अनन्यत्वे तस्योत्पत्तिविनाशाभ्यां आत्मनोऽप्युत्पत्ति विनाशाप्तिः, इत्याक्षेपश्चालना || १०४९ ॥ अथ प्रत्यवस्थानं ' आया आकार मे, सामाइय कम्म करणमाया य । परिणामे सह आया, सामाइयमेव उपसिद्धी । १०४२॥ ममात्मैव कारकः, सामायिकस्य कर्त्ता, तथाप्युक्तदोषाभावः, यतः परिणामे सत्यात्मा सामायिकं परिणामश्च कथञ्चित्पूर्वरूपाऽत्यागेनोत्तररूपापत्तिः । ततः परिणामे सत्यात्मनो नित्यानित्याद्यनेकरूपता । द्रव्यगुणपर्यायाणामप्येवमेव भेदाभेदसिद्धेः ततो नैकान्तेन कर्तृकर्म्मकरणानामनन्यत्वं तद्गुणत्वात्, न चान्यत्वं तद्गुणत्वादेव । ततश्वात्मैव कर्त्ता, कर्म्म, करणं चेति तत्त्वं इति प्रसिद्धिः स्थापना ।। १०४२ ।। अत्रार्थे युक्तिमाह ' एग ' एगजह मुट्ठि करेइ अत्यंतरे घडाईणि । दवत्थंतरभांवे, गुणस्स किं केण संबद्धं ॥ १०४३ ॥ एकत्वेऽभेदेऽपि कर्तृकर्म्मकरणभावो दृष्टः, यथा मुष्टिं करोति, अत्र देवदत्तः कर्त्ता, तस्य मुष्टिः कर्म, तस्यैव प्रय ૩ For Private & Personal Use Only चालना प्रत्यवस्थाने ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460