Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat
View full book text
________________
आवश्यकनियुक्ति
दीपिका ||
॥२१२ ॥
Jain Education Inle
कम्ममवज्जं जं गरिहिअंति, कोहाइणो व चत्तारि । सह तेण जो उ जोगो, पञ्चखाणं हवइ तस्स ॥ १०४५ ॥ कर्म्म अद्यं तद्भयते यद्गर्हितमिति, क्रोधादयो वा चत्वारोऽवद्यं तेषामवद्यहेतुत्वात्कारणे कार्योपचारः । सह तेनावद्येन योगो व्यापारः स सावद्ययोगस्तस्य प्रत्याख्यामि ।। १०४५ ।। गतं अवघं द्वा० ६ । अथ योगमाह ' दवे '
दमणवइ काए, जोगा दव्वा दुहा उ भावंमि | जोगा सम्मत्ताई, पसत्थ इअरो उ विवरीओ ॥ ९०४६ ॥
द्रव्ययोगा मनोवाक्काययोग्यद्रव्याणि । भावे द्विधा, प्रशस्तः सम्यक्त्वज्ञानचरणानि, इतरोऽप्रशस्तो विपरीतो मिथ्यात्वादि । युज्यतेऽनेनात्मा कर्म्मणेति योगः | १०४६ ॥ गतं योगद्वा० ७ । प्रतिषेधस्याख्यानं आदरेण कथनं प्रत्याख्यानं, तनिक्षेपमाह-' नामं ठवणा दविए खित्तमइच्छा अ भावओ तं च । नामाभिहाणमुत्तं ठवणाऽऽगाररक निरकेवो । १ । ' नामप्रत्याख्यानं १, स्थापनाप्रत्याख्यानं २, द्रव्यप्रत्याख्यानं ३, क्षेत्रप्रत्याख्यानं ४, अदित्साप्रत्याख्यानं ५, भावप्रत्याख्यानं च ६ । तत्र नामप्रत्याख्यानं प्रत्याख्यानेति यदभिधानं कस्यापि स्यात् । स्थापनाप्रत्याख्यानं आकार निक्षेपोऽक्षनिक्षेप, कोऽर्थः ? चित्रादौ प्रत्याख्यातुर्या स्थापना, प्रत्याख्यातृप्रत्याख्यानयोरभेदोपचारात्, अक्षवराटकादौ वा स्थापना इदं प्रत्याख्यानमिति । १ । एषा गाथा वृत्तौ न । ' दवं '
दव्वंमि निण्हगाँई, निब्बिसॅयाई अ होइ खित्तंमि । भिरकाईणमदाणे, अइच्छे भावे पुणो दुविहं ॥ ९०४७ ॥ द्रव्ये निवादि, निवादीनां प्रत्याख्यानमित्यर्थः प्रत्याख्यानप्रत्याख्यात्रोरभेदात्, आदितोऽनुपयुक्तादेः प्रत्याख्यानं,
For Private & Personal Use Only
प्रत्याख्याननिक्षेपाः॥
॥२१२॥
www.jainelibrary.org

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460