Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 418
________________ कथं सामायिकलाम आवश्यक नियुक्ति दीपिका ॥ ॥२०८॥ 1 द्वारम् ॥ ज्ञेयः, यथा उद्दिशामि सूत्रतोऽर्थतो द्रव्यगुणपर्यायैरनन्तगमसहितैरिति । गुरोरभिव्याहारे सति शिष्यो ब्रूते-उद्दिष्टमिदं मम, इच्छाम्यनुशास्ति पूज्यानामिति । एवमभिव्याहाराऽख्यं अष्टमं द्वारं, 'कयाकयं' इति गाथोक्ते नयत इति पञ्चममूलद्वारं सम्पूर्ण । व्याख्याता 'आलोइए विणीअस्से'ति प्रतिद्वारगाथा ।। १८२ ॥ अथ करणं कतिविधमित्याह ' उद्दे' उद्देस समुद्देसे, वायण मणुजाणणं च आयरिए।सीसम्मि उद्दिसिजंतमाइ, एअंतु जं कइहा ॥१८३॥ ____ गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं । तत्राचार्ये करणं चतुर्दा, उद्देश १ वाचना २ समुद्देशा ३ ऽनुज्ञा ४ | भेदात् , गाथाभङ्गभयाद् व्यत्ययः, शिष्ये तूद्दिश्यमानवाच्यमानसमुद्दिश्यमानानुज्ञायमानानि करणानि । 'एअं तु जं कइह 'त्ति एतदेवं चतुर्दा तत् , यदुक्तं-करणं कतिधेति । इह प्राग्यन्नामाधनेकधा करणमुक्तं तत्पूर्वगृहीतसामायिकमाश्रित्य, एतत्तु प्रतिपत्तिमाश्रित्येति न दोषः, द्वा०६॥ १८३ ॥ अथ कथं द्वा०७ 'कह' कह सामाइअलंभो ? तस्सवविघाइदेसवाघाई । देसविघाईफडगअणंतवुड्डीविसुद्धस्स ॥ १०३५ ॥ ___ कथं सामायिकलाभः स्यात् ? उच्यते-तस्य सामायिकस्य सर्वघातीनि देशघातीनि च कर्माणूनां स्पर्द्धकानि कर्माणुवृन्दानि स्युः, तत्र ज्ञानावरणदर्शनमोहनीयानां सर्वघातिषु सर्वेषु स्पर्द्धकेषु क्षीणेषु देशघातिनां त्वनन्तस्पर्द्धकेषु क्षीणेष्वनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धधमानः शुभशुभतरपरिणामो भावतः ककारं लभते । ततोऽनन्तगुणवृद्ध्यैव प्रतिसमयं विशुध्यमानः सन् रेफमेवं शेषानपि वर्णान् , तत आह-देशविघातिस्पर्धकानन्तवृद्धथा विशुद्धस्य सतः॥ १०३५ ॥ एवं' ॥२०८॥ Jain Education For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460