Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 409
________________ द्विधाजीव|भावकरणे श्रुतभावकरणम् ॥ भावे करणं द्विधा, जीवभावकरणं अजीवभावकरणं च, तत्राल्पवाच्यत्वादजीवभावकरणमादौ व्याख्याति । वर्णादीनि यत्परप्रयोगं विनाऽभ्रादेर्नानावर्णान्तरगमनं, आदितो गन्धादिग्रहः । नन्विदं द्रव्यविश्रसाकरणमेव प्रागुक्तं, कथमत्र भावकरणं ? उच्यते-इह भावाधिकारात्पर्यायप्राधान्यमाश्रित्योक्तं, द्रव्यविश्रसाकरणे तु द्रव्यप्राधान्यमाश्रित्येति शेषः। जीवकरणं तु द्विविधं, जीवभावरूपं श्रुतज्ञानभावकरणं, श्रुतरहितं जीवपर्यायरूपं नोश्रुतभावकरणं च ।। १०२६ ॥ श्रुतभावकरणमाह 'बद्ध' बद्धमबद्धं तु सुअं, बद्धं तु दुवालसंग निद्दिटुं। तविवरीअमबद्धं, निसीहमनिसीह बद्धं तु ॥१०२७॥ __श्रुतं द्विधा बद्धं अबद्धं च । बद्धं तु द्वादशाङ्गे निर्दिष्टं । उपलक्षणादन्यदपि गद्यपद्यात्मकं सर्व बद्धमिति । तद्विपरीतं शास्त्रे ग्रथितं अबद्धं । बद्धं तु द्विधा, रहसि पाठादुपदेशाच्च छन्नं निशीथं तदन्यदनिशीथं ॥ १०२७ ॥'भूआ' भूआपरिणयविगए, सद्दकरणं तहेव न निसीहं। पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ॥११२८॥ भूतं उत्पन्नं, अपरिणतं परिणामान्तरमगतमित्यर्थः, विगतं नष्टं इत्यादिषु शब्दकरणं उक्तिर्न निशीथं । अयं भा 'उप्पन्नेह वा विगमेइ वा धुवेइ वा' इत्याद्यर्थस्य प्रतिपादकं शास्त्रं न निशीथं प्रकाशपाठादुपदेशाच, प्रच्छन्नं यद्वा गुप्तार्थ निशीथं उच्यते ॥ १०२८ ॥ 'अग्गे' अग्गेअणीअंमि जहा, दीवायण जत्थ एग तत्थ सयं । जत्थ सयं तत्थेगो, हम्मइ वा भुंजए वावि ॥ यथाऽग्रायणीये पूर्वेऽयं पाठोऽस्ति 'जत्थेगो दीवायणो हम्मइ, तत्थ दीवायणसयं हम्मइ । जत्थ दीवायणसयं हम्मइ Jain Education Intel For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460