Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 407
________________ खित्तस्स नत्थि करणं, आगासं जं अकित्तिमो भावो। वंजणपरिआवन्नं, तहावि पुण उच्छकरणाई॥ | क्षेत्रकाल। क्षेत्रस्य करणं क्रियमाणता नास्ति, यस्मात् क्षेत्रं आकाशं, तच्चाकृत्रिमो भावः पदार्थः, तथापि पुनर्व्यञ्जनैः पुद्गलैः पर्या-IN करणे ।। याकारादिविशेषं आपन्नं प्राप्तं तस्य करणं स्याद्यथा मण्डपाद्यपनीय आकाशं कृतमिति । उपचाराद्वा क्षेत्रस्य करणं, यथाइक्षुक्षेत्रस्य करण इक्षुकरण, तदादि तत्प्रभृतिक ॥ १०२४ ।। उक्त क्षेत्रकरणं 'काले' कालविनस्थि करणं, तहावि पुणवंजणप्पमाणेणं । बवबालवाइकरणेहि, णेगहा होइ ववहारो ॥१०२५॥ ____ कालेऽपि करणं नास्ति कालस्य वर्तनादिरूपत्वात् , वर्तनादीनां च स्वयमेव भावात् , तथापि पुनर्व्यञ्जनप्रमाणेन वर्त्तनाद्यभिव्यञ्जकद्रव्याणां घटपटादीनां प्रमाणेन बलेन कालकरणं स्यात । यथा-अयं घटो द्विवर्षसम्बन्धी, यतो वर्तनादयो द्रव्येभ्यः कथश्चिदभिन्नास्ततस्तत्करणे वर्तनादीनामपि करणं स्यात् । तत्र वर्त्तना इति एकद्वयादिसमयातिक्रमणं कथ्यते । आदिशब्दात्कालजन्या वृद्धिहान्यादयः, द्रव्याणि घटादीनि। समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणं, यतः | बबबालवादिभिः करणेलोंकेऽनेकधा व्यवहारः स्यात् । भाष्यं-'बवं च बालवं चेव कोलवं थीविलोयणं । गराइ वणियं चेव विट्ठी हवइ सत्तमा । १ ।' बवं १ बालवं २ कौलवं ३ स्त्रीविलोचनं तैतिलेत्यन्याख्यं ४ गरादि ५ वणिक् ६ वृष्टिः ७ एतानि चलानि वर्तन्तेऽन्यानि चत्वारि स्थिराणि, यथा- सउणी चउप्पय नागं किंसुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरति सउणी सेसं तिय कमसो । २।' कृष्णचतुर्दश्या रात्राविति पाश्चात्याटुं शकुनिरमावास्याः पूर्वार्द्ध चतुष्पदं, For Private & Personal Use Only www.jainelibrary.org Jain Education He Il

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460