________________
खित्तस्स नत्थि करणं, आगासं जं अकित्तिमो भावो। वंजणपरिआवन्नं, तहावि पुण उच्छकरणाई॥ | क्षेत्रकाल। क्षेत्रस्य करणं क्रियमाणता नास्ति, यस्मात् क्षेत्रं आकाशं, तच्चाकृत्रिमो भावः पदार्थः, तथापि पुनर्व्यञ्जनैः पुद्गलैः पर्या-IN करणे ।।
याकारादिविशेषं आपन्नं प्राप्तं तस्य करणं स्याद्यथा मण्डपाद्यपनीय आकाशं कृतमिति । उपचाराद्वा क्षेत्रस्य करणं, यथाइक्षुक्षेत्रस्य करण इक्षुकरण, तदादि तत्प्रभृतिक ॥ १०२४ ।। उक्त क्षेत्रकरणं 'काले'
कालविनस्थि करणं, तहावि पुणवंजणप्पमाणेणं । बवबालवाइकरणेहि, णेगहा होइ ववहारो ॥१०२५॥ ____ कालेऽपि करणं नास्ति कालस्य वर्तनादिरूपत्वात् , वर्तनादीनां च स्वयमेव भावात् , तथापि पुनर्व्यञ्जनप्रमाणेन वर्त्तनाद्यभिव्यञ्जकद्रव्याणां घटपटादीनां प्रमाणेन बलेन कालकरणं स्यात । यथा-अयं घटो द्विवर्षसम्बन्धी, यतो वर्तनादयो द्रव्येभ्यः कथश्चिदभिन्नास्ततस्तत्करणे वर्तनादीनामपि करणं स्यात् । तत्र वर्त्तना इति एकद्वयादिसमयातिक्रमणं कथ्यते । आदिशब्दात्कालजन्या वृद्धिहान्यादयः, द्रव्याणि घटादीनि। समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणं, यतः | बबबालवादिभिः करणेलोंकेऽनेकधा व्यवहारः स्यात् । भाष्यं-'बवं च बालवं चेव कोलवं थीविलोयणं । गराइ वणियं चेव विट्ठी हवइ सत्तमा । १ ।' बवं १ बालवं २ कौलवं ३ स्त्रीविलोचनं तैतिलेत्यन्याख्यं ४ गरादि ५ वणिक् ६ वृष्टिः ७ एतानि चलानि वर्तन्तेऽन्यानि चत्वारि स्थिराणि, यथा- सउणी चउप्पय नागं किंसुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरति सउणी सेसं तिय कमसो । २।' कृष्णचतुर्दश्या रात्राविति पाश्चात्याटुं शकुनिरमावास्याः पूर्वार्द्ध चतुष्पदं,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education He
Il