________________
आवश्यक नियुक्तिदीपिका ॥ ॥२०॥
तैजसकार्मणयोः संघातादि
कालमानम् ॥
पुनरपि श्रुतकेवली भूत्वाऽऽहारकदेहं कुर्यात्तस्य ज्ञेयं ॥ १७१ ॥ 'तेआ' तेआकम्माणं पुण, संताणाऽणाइओ न संघाओ। भवाण हुज्ज साडो, सेलेसीचरमसमयमि ॥१७२॥ .. तैजसकार्मणयोः पुनर्न सर्वसंघातः, सन्तानाऽनादितः अनादिसन्तानत्वादित्यर्थः । भव्यानां केषाश्चित् शाटः स्यात् । शैलेशीकरणचरमसमये, स एक सामयिक एव ॥ १७२ ॥ ' उभ' उभयं अणाइ निहणं, संतं भवाण हुन केसिंचि । अंतरमणाइभावा, अञ्चंतविओगओ नेसि ॥१७३॥ ___उभयं प्रवाहापेक्षयाऽनादिनिधनं अनाद्यन्तं परं केषाश्चिद् भव्यानां सान्तं सपर्यन्तं भवेन्न तु सर्वेषां, तथाऽन्तरमनादिभावान्मोक्षगमनकालेऽत्यन्तवियोगतश्च नानयोः ।। १७३ ॥ अथान्यथा जीवप्रयोगकृतं चतुर्की करणमाह 'अहवा' अहवा संघाओ साडणं च, उभयं तहोभयनिसेहो। पडे संखे सगडे थूणा, जीवपओगे जहासंखं॥१७४। ___ अथवा संघातः, शाटनं, उभयं, तथोभयनिषेधः करणानि । अत्र यथासङ्घयं क्रमेण पटः, शङ्खः, शकटं, स्थूणा, जीवप्रयोग इति जीवव्यापाराश्रित्य दृष्टान्ता ज्ञेयाः । तत्र पटे तन्तुसंघातात्मकत्वात् संघातकरणं, शङ्ख वलयादिकृतौ शाटकरणं, शकटे तक्षणकीलिकादियोगादुभयकरणं, स्थूगायां पुनरूर्ध्वतिर्यकरणयोगे संघातशाटविरहादुभयनिषेधकरणं । इदं च 'जं जं निजीवाणं' इत्याधुक्तत्वादजीवकरणमेव, तथापि जीवप्रयोगात्करणमिति व्युत्पत्त्या जीवप्रयोगकरणमपि ॥ १७४ ॥ उक्तं द्रव्यकरणमथ क्षेत्रकरणादीन्याह 'खित्त'
॥२०२॥
Jan Education
For Private & Personal use only
www.jainelibrary.org