SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter वि तरुकालमुकोसं । २ ।' उभयस्यान्तरं एकः समयः, कथं ? चिरं विकुर्येति नृतिर्यक्षु वैक्रियं कुर्वन्नाद्यसमयद्वयं स्थित्वा तृतीयादिसमयेषु मृतस्य देवेष्वविग्रहे गतस्य विग्रहं विना गतस्याऽऽदिसमये संघातं कृत्वा द्वितीये संघातशाटं कुर्व्वतः । शाटस्य तु जघन्यान्तरमन्तमुहूर्त्तं यदौदारिकदेही वैक्रियं कृत्वाऽन्ते सर्वशाटं विधायान्तर्मुहूर्त स्थित्वा कार्ये जाते पुनवैक्रियं कृत्वाऽन्तर्मुहूर्त्तं स्थित्वा सर्वशाटं कुर्यात्तदा वैक्रियशाटद्वयस्यान्तरं अन्तर्मुहूर्त्तद्वयं स्यात्तच्च बृहत्तरमेवान्तर्मुहूर्त्तं विवक्ष्यते, यतोऽष्टसमयेभ्योऽनु समयोनघटद्वयं यावत्सर्वोऽपि कालोऽन्तर्मुहूर्त्तमेवोच्यते । तथा त्रयाणां वैक्रियस्य सर्वसंघातोभय सर्वशादानां उत्कृष्टं अन्तरं तरुकालं प्राहुः अनन्तकालमित्यर्थः, यथा - कोऽपि वैक्रियसंघातादित्रयं कृत्वा वनस्पतिष्वनन्तकालमतिवाह्य देवादिषु वैक्रिय संघातादित्रयं कुर्यात् ॥ १६९ ॥ ' आहा ' आहारे संघाओ, परिसाडो अ समयं समं होइ । उभयं जहन्नमुकोसयं च अंतोमुहुत्तं तु ॥ १७० ॥ आहारकाङ्गे संघातः शादथ समयं स्यादिति समं तुल्यं ज्ञेयम् । उभयं जघन्यं उत्कृष्टं चान्तर्मुहूर्त, अन्तर्मुहूर्त्तस्थायित्वातस्य, उत्कृष्टान्तर्मुहूर्त्ताजघन्यं लघुतरं ज्ञेयम् ॥ १७० ॥ ' बंध ' बंधणसाडुभयाणं, जहन्नमंतोमुहुत्तमंतरणं । उक्कोसेण अवडं, पुग्गलपरिअहृदेसूणं ॥ १७१ ॥ बन्धनं संघातस्तथा शाटः, उभयं, एषां त्रयाणां जघन्यं अन्तरं विरहोऽन्तर्मुहूर्त्त सकृत्यागादन्वन्तर्मुहूर्त्तेनैव तदारम्भात्, उत्कर्षेणार्द्ध पुद्गलपरावर्त्तो देशोनोऽन्तरं, एतच्च यः श्रुतकेवल्याहारक देहं कृत्वा प्रमादाद् वनस्पत्यादिषु यथोक्तं कालं स्थित्वा For Private & Personal Use Only आहारके संघातादि काल मानम् ॥ www.jainelibrary.org
SR No.600031
Book TitleAvashyakaniryuktidipika Part_1
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1939
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy