________________
द्विधाजीव|भावकरणे श्रुतभावकरणम् ॥
भावे करणं द्विधा, जीवभावकरणं अजीवभावकरणं च, तत्राल्पवाच्यत्वादजीवभावकरणमादौ व्याख्याति । वर्णादीनि यत्परप्रयोगं विनाऽभ्रादेर्नानावर्णान्तरगमनं, आदितो गन्धादिग्रहः । नन्विदं द्रव्यविश्रसाकरणमेव प्रागुक्तं, कथमत्र भावकरणं ? उच्यते-इह भावाधिकारात्पर्यायप्राधान्यमाश्रित्योक्तं, द्रव्यविश्रसाकरणे तु द्रव्यप्राधान्यमाश्रित्येति शेषः। जीवकरणं तु द्विविधं, जीवभावरूपं श्रुतज्ञानभावकरणं, श्रुतरहितं जीवपर्यायरूपं नोश्रुतभावकरणं च ।। १०२६ ॥ श्रुतभावकरणमाह 'बद्ध' बद्धमबद्धं तु सुअं, बद्धं तु दुवालसंग निद्दिटुं। तविवरीअमबद्धं, निसीहमनिसीह बद्धं तु ॥१०२७॥ __श्रुतं द्विधा बद्धं अबद्धं च । बद्धं तु द्वादशाङ्गे निर्दिष्टं । उपलक्षणादन्यदपि गद्यपद्यात्मकं सर्व बद्धमिति । तद्विपरीतं शास्त्रे ग्रथितं अबद्धं । बद्धं तु द्विधा, रहसि पाठादुपदेशाच्च छन्नं निशीथं तदन्यदनिशीथं ॥ १०२७ ॥'भूआ' भूआपरिणयविगए, सद्दकरणं तहेव न निसीहं। पच्छन्नं तु निसीहं निसीहनामं जहऽज्झयणं ॥११२८॥
भूतं उत्पन्नं, अपरिणतं परिणामान्तरमगतमित्यर्थः, विगतं नष्टं इत्यादिषु शब्दकरणं उक्तिर्न निशीथं । अयं भा 'उप्पन्नेह वा विगमेइ वा धुवेइ वा' इत्याद्यर्थस्य प्रतिपादकं शास्त्रं न निशीथं प्रकाशपाठादुपदेशाच, प्रच्छन्नं यद्वा गुप्तार्थ निशीथं उच्यते ॥ १०२८ ॥ 'अग्गे' अग्गेअणीअंमि जहा, दीवायण जत्थ एग तत्थ सयं । जत्थ सयं तत्थेगो, हम्मइ वा भुंजए वावि ॥
यथाऽग्रायणीये पूर्वेऽयं पाठोऽस्ति 'जत्थेगो दीवायणो हम्मइ, तत्थ दीवायणसयं हम्मइ । जत्थ दीवायणसयं हम्मइ
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org