________________
Jain Education Inte
अरिहो उ नमुक्कारस्स, भावओ खीणरागमयमोहो। मुक्खत्थीणंपि जिणों, तहेव जम्हा अओ अरिहा ॥ तथैव मोक्षार्थिनामपि क्षीणरागमदमोहो जिनो यस्मात् भावतो नमस्कारस्यार्हः, तुरेवार्थः, अतोऽर्हन् ॥ ९०२ ॥ 'संसा' संसाराअडवीए, मिच्छत्तऽन्नाणमोहिअपहाए । जेहिं कय देखिअत्तं, ते अरिहंते पणिवयामि ॥९०३॥ संसाराटव्यां मिथ्यात्वाज्ञानाभ्यां मोहितः पन्था यस्यां सा मिथ्यात्वाज्ञानमोहितपथा तस्यां मिथ्यात्वाज्ञानमोहितपथायां यैर्देशकत्वं सार्थवाहत्वं कृतं तानर्हतो नमामि ॥ ९०३ ॥ ' सम्म '
सम्म
दिट्ठो, नाणेण य सुटु तेहिं उवलद्धो । चरणकरणेण पहओ, निवाणपहो जिणिदेहिं ॥ ९०४ ॥ सम्यग्दर्शनेन सामान्यतो दृष्टः, ज्ञानेन च सुष्टुपलब्धो विशेषतो ज्ञातः, चरणकरणाभ्यां प्रहतः क्षुण्णः । तत्र " वय ५ समणधम्म १० संजम १७ वेयावच्चं १० च बंभगुत्तीओ ९ । नाणाइतियं ३ तब १२ कोहनिग्गहाई ४ चरणमेयं " । १ । चरणसप्ततिः ७० । “पिंडविसोही ४ समिई ५ भावण १२ पडिमा १२ इंदियनिग्गहो ५ । पडिलेहण २५ गुत्तीओ ३ अभिग्गा ४ चैव करणं तु " । २ । करणसप्ततिः ७० । तत्र पिण्डविशोधिः- उद्गमदोषाः १ उत्पादनादोषाः २ एषणादोषाः ग्रासैपणदोषाचेति चतुर्द्धा । अभिग्रहा द्रव्य १ क्षेत्र २ काल ३ भाव ४ भेदाच्चत्वारः ॥ ९०३ ॥ न केवलं प्रहतः किंत्वनेन पथा सिद्धिं प्राप्ता अत आह 'सिद्धि ' सिद्धिवसहिमुवगया, निवाणसुहं च ते अणुप्पत्ता | सासयमवाबाहं, पत्ता अयरामरं ठाणं ॥ ९०५ ॥
For Private & Personal Use Only
अटवीदेशकत्व
द्वारम् ॥
www.jainelibrary.org