Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1411
________________ वीर देव देवाण महाणुभावे, सहस्सा दिवि णं विसिडे ॥७॥ से पाया अक्खयसागरे वा, महोदही वाव अणाले वा श्रसाइमुके, तपारे । ( १३६२ ) अभिधानराजेन्द्रः । " सकेव देवाहिवई जुईमं ॥ ८ ॥ नास्योत्तरोऽस्तीत्यनुत्तरस्तमिममनुत्तरं धर्मे जिनानाम्ऋषभादितीर्थकृतां सम्बन्धिनमयं - मुनिः- श्रीमान् वर्द्धमानाख्यः काश्यपः गोत्रेण, श्राशुप्रज्ञः केवलज्ञानी - उत्पनदिव्यज्ञानो नेता -प्रणेतेति ताच्छीलिकस्तृन् तद्योगे'न लोकाव्ययनिष्ठे ' ( पा० २-३-६६ ) त्यादिना षष्ठीप्रतिषेधाद्धर्ममित्यत्र कर्मणि द्वितीयैव, यथा चेन्द्रो दिवि - स्वर्गे देवसहस्राणां महानुभावो महाप्रभाववान् 'राम् इति वाक्यालङ्कारे, तथा नेता-प्रणायको विशिष्टो-रूपबलवर्णादिभिः प्रधानः एवं भगवानपि सर्वेभ्यो विशिष्टः प्रणायको महानुभावश्चेति ॥ ७ ॥ श्रपि च - सौ भगवान् प्रज्ञायते ऽनयेति प्रज्ञा तया अक्षयः- न तस्य ज्ञातव्येऽर्थे बुद्धिः प्रतिक्षीयते प्रतिहन्यते वा, तस्य हि बुद्धिः केवलज्ञानाख्या, साच साद्यपर्यवसाना कालतो द्रव्यक्षेत्रभावैरप्यनन्ता, सर्वसाम्येन दृष्टान्ताभावाद्, एकदेशेन त्वाहयथा - ' सागर ' इति श्रस्य चाविशिष्टत्वात् विशेषणमाह - महोदधिरिव - स्वयम्भूरमण इवानन्तपारः यथाऽसौ विस्तीर्णो गम्भीरजलोऽक्षोभ्यश्च एवं तस्यापि भगवतो विस्तीर्णा प्रज्ञा स्वयम्भूरमणानन्तगुणा गम्भीराऽक्षोभ्या च, यथा च अलौ सागरः अनाविलः - अकलुषजलः, एवं भगवानपि तथाविधकर्मलेशाभावादकलुषज्ञान इति, तथाकषाया विद्यन्ते यस्यासौ कषायी न कषायी अकषायी, तथा ज्ञानावरणीयादिकर्मबन्धनाद्वियुक्लो-मुक्तः, भिक्षुरिति कचित्पाठः, तस्यायमर्थः - सत्यपि निःशेषान्तरायक्षये सर्वलोकपूज्यत्वे च तथापि भिक्षामात्र जीवित्वात् भिक्षुरेवासौ, नाक्षीणमहानसादिलब्धिमुपजीवतीति, तथा शक्र इव देवाधिपतिः द्युतिमान् दीप्तिमानिति ॥ ८ ॥ किश्ञ्च - से वीरिए सं पडिपुन्नवीरिए, सुदंसणे वा गगसव्वसे । सुराल वासिमुदागरे से, विरायऽगगुणोववे ॥ ६ ॥ सयं सहस्साण उ जोयणाणं, तिकंडगे पंडगवेजयंते । से जोयणे यवणवते सहस्से, उस्सितो दुसहस्समेगं ॥ १० ॥ स- भगवान् वीर्येण - औरसेन बलेन धृतिसंहननादिभिश्व वीर्यान्तरायस्य निश्शेषतः क्षयात् प्रतिपूर्णवीर्यः, तथा सुदशनो- मेरुर्जम्बूद्वीपनाभिभूतः स यथा नगानां पर्वतानां सर्वेषां श्रेष्ठः - प्रधानः तथा भगवानपि वीर्येणान्यैश्च गुणैः सर्वश्रेष्ठ इति, तथा यथा - सुरालयः -- स्वर्गस्तनिवासिनां Jain Education International वीर मुदाकरो - हर्षजनकः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिभि - गुणैरुपेतो विराजते - शोभते, एवं भगवानप्यनेकैर्गुणैरुपेतो विराजत इति । यदिवा-यथा त्रिदशालयो मुदाकरोनेकैर्गुणैरुपेतो विराजत इति एवमसावपि मेरुरिति ॥ ६ ॥ पुनरपि दृष्टान्तभूतमेरुवणैनायाह - स मेरुर्यो जनसहस्राणां शतमुच्चैस्त्वेन, तथा त्रीणि कण्डान्यस्येति त्रिकण्डः, तद्यथा-भौमं, जाम्बूनदं, वैडूर्यमिति । पुनरप्यसावेव विशेष्यते' पण्डकवैजयन्त' इति पण्डकवनं शिरसि व्यवस्थितं वैजयन्तीकल्प - पताकाभूतं यस्य स तथा तथाऽसावूर्ध्वमुच्छ्रितो नवनवतिर्योजन सहस्राण्यधोऽपि सहस्रमेकमवगाढ इति ॥ १० ॥ तथा पुट्ठे मे चिट्ठभूमि डिए, जं सूरिया अणुपरिट्टयंति । से हेमवन्ने बहुनंदणे य जंसी रतिं वेदयतीमहिंदा ॥ ११ ॥ से पव्व सहमहप्पगासे, विरायती कंचणमवभे । अणुत्तरे गिरिसु य पव्वदुग्गे, गिरीवरे से जलिए व भोमे ॥ १२ ॥ नभसि स्पृष्टो - लग्नो नभो व्याप्य तिष्ठति तथा भूमिं चावगाह्य स्थित इति ऊर्ध्वाधस्तिर्य ग्लोकसंस्पर्शी यथा यं मेरुं सूर्या- श्रदित्या ज्योतिष्का अनुपरिवर्तयन्तियस्य पार्श्वतो भ्रमन्तीत्यर्थः, तथाऽसौ हेमवर्णो- निष्टप्तजाम्बूनदाभः, तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः, तथाहि भूमौ भद्रशालवनं ततः पञ्चयोजनशतान्यारुह्य मेखलायां नन्दनं, ततो द्विषष्टियोजन सहस्राणि पञ्चशताधिकान्यतिक्रम्य सौमनसं, ततः षट्त्रिंशत्सहस्राण्यारुह्य शिखरे पण्डकवनमिति । तदेवमसौ चतुर्नन्दनवनाद्युपेतोfararanीडास्थानसमन्वितः, यस्मिन् महेन्द्रा अभ्यागत्य त्रिदशालयाद्रमणीयतरगुणेन रतिम्-रमणक्रीडां वेदयन्ति-अनुभवन्तीति ॥ ११॥ अपि च-सः- मेर्वाख्योऽयं पर्वतो मन्दरो मेरुः सुदर्शनः सुरगिरित्यैवमादिभिः शब्दैर्महान् प्रकाशः-प्रसिद्विर्यस्य स शब्दमहाप्रकाशो विराजते - शोभते काञ्चनस्येव मृष्टः -- श्लक्ष्णः शुद्धो वा वर्णो यस्य स तथा एवं न विद्यते उत्तरः- प्रधानो यस्यासावनुत्तरः, तथा गिरिषु च मध्ये पर्वभिः– मेखलादिभिर्देष्ट्रा पर्वतैर्वा दुर्गो-विषमः सामान्यजन्तूनां दुरारोहो गिरिवरः- पर्वतप्रधानः तथाऽसौ मणिभिरौषधीभिश्व देदीप्यमानतया भौम इव-भूदेश इव ज्वलित इति ॥ १२ ॥ ( त्रयोदशमी १३ गाथा 'जम्बूदीव शब्दे चतुर्थभागे १३७८ पृष्ठे गता । ) साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दाष्टन्तिकं दर्शयतिसुदंसणस्सेव जसो गिरिस्स, पच्चई महतो पव्वयस्स । तोवमे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488