Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1418
________________ (१३६६ ) अभिधानराजेन्द्रः । बीरिय ते चाविभागा एकैकस्मिन् जीवप्रदेशे यावन्तो भवन्ति तावत आह- पायविभा, लोगासंखेज गप्पएससमा । विभागा एकेके, होंति पएसे जहञेयं ॥ ६ ॥ प्रज्ञाछेदनकेन चिचाः सन्तो ये वीर्यस्याविभागा जातास्ते एकैकस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्य संख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति । उत्कर्षतो ऽप्यसंख्येयलोकाकाशप्रदेशप्रमाणा एव । किं तु ते जघन्यपदभाविवीर्याविभागापेक्षयाऽसंख्येयगुणा द्रष्टव्याः इति ॥ ६ ॥ उक्काऽवि भागप्ररूपणा | संप्रति वर्गणाप्ररूपणामाह जेसि पसाय समा, अविभागा सम्वतो य थोवतमा । ते वग्गणा जहना, अविभागहिया परंपरओ ॥ ७ ॥ येषां जीवप्रदेशानां समास्तुल्यसंख्या वीर्याविभागा भवन्ति, सर्वतश्च सर्वेभ्योऽपि चान्येभ्योऽपि जीवप्रदेशगतवीर्याsविभागेभ्यः स्तोकतमाः, ते जीवप्रदेशा घनीकृतलोकासंख्येयभागवर्त्य संस्थेयप्रतरगत प्रदेशराशिप्रमाणाः समुदिता एका वर्गला । सा च जघन्या स्तोकाऽविभागयुक्तत्वात्, श्रविभागाधिका परंपरत इति । ततः परा वर्गणा एकैके नाविभागेनाधिका वक्तव्या । तद्यथा— जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासंख्येय भाग वर्त्य संख्येय प्रतरगत प्रदेशराशिप्रमाणा वर्तन्ते, तेषां समुदायो द्वितीया वर्गणा । ततः परं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृतीया वर्गेणा । ततोऽपि त्रिभिवयांविभागैरधिकानां तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गला । एवमेकैकवीर्याविभागवृद्धया वर्धमानानां तावतां तावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्या इति ॥ ७ ॥ तान कियस्य इति तनिरूपणार्थे स्पर्धकप्ररूपणामाहसेढिअसंखित्रमित्ता, फड्गमे तो अंतरा नडत्थि । जाव असंखा लोगा, तो बीयाई य पुब्वसमा ॥ ८ ॥ इह धर्नाकृतस्य लोकस्य या एकैकप्रदेशपतिरूपा श्रेणिस्तस्याः श्रेणेरसंक्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्रस्तावत्प्रमाणा यथोक्तस्वरूपा वर्गणाः समुदिताः, एकं स्पर्धकं, स्पर्धन्त इवोत्तरोत्तरवृद्धया वर्गणा अत्रेति स्पर्धकम् । हुलमिति ( श्रीम० कृ० १-११) वचनादधिकरणे धुम् । उक्का स्पर्धकप्ररूपणा । सांप्रतमन्तरप्ररूपणामाह-' एतो अंतरा नत्थि ' इतः पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति । किमुक्तं भवति ? - ऊर्ध्वमेकैकवीर्याविभागवृद्धया निरन्तरं वर्धमाना जीवप्रदेशा न लभ्यन्ते, किंतु सान्तरा एव । तथाहि पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा नैकेन वीर्याविभागेनाधिकाः प्राप्यन्ते, नापि द्वाभ्यां नापि त्रिभिः, नापि चतुर्भिः यावन्नापि संख्येयेः, किं त्वसंस्येयैरेवासंस्येयलोकाकाशप्रदेश प्रमासैरभ्यधिकाः प्राप्यन्ते । + Jain Education International For Private बीरिय ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । 'तो बीयाई य पुण्यसमति ततो द्वितीयस्पर्धकप्रथमवर्गणातः परतो द्वितीयादयो वर्गणाः पूर्वसमाः पूर्वस्पर्धकस्येव वतव्या इत्यर्थः । तथाहि प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तुतीया वर्गणा । एवं तावद्वाच्यं यावत् श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणा वर्गणा भवन्ति, तासां व समुदायो द्वितीयं स्पर्धकम् । ततः परं पुनरप्येकेन वीर्याविभागेनाघिका जीवप्रदेशा न लभ्यन्ते, नापि द्वाभ्यां नापि त्रिभिः, यावन्नापि संक्येयैः, किं त्वसंख्येयैरेवासंख्येयलोकाकाशप्रदेप्रमाणैरभ्यधिकाः प्राप्यन्ते ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकैकधीर्याविभागवृद्ध्या द्वितीयादयो वर्गणास्तावद्वाच्या याच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति, तासां च समुदायस्तृतीयं स्पर्धकम् । एवम संख्येयानि स्पर्धकानि वाच्यानीति ॥ ८ ॥ तदेवं कृताऽन्तरप्ररूपणा । संप्रति स्थानप्ररूपणां करोति सेढि संखियमेता हूँ फड्डगाई जहभयं ठाणं । फडगपरिवुडिओ, अंगुलभमो असंखतमो ॥ ६ ॥ इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयभामगतप्रदेशराशिप्रमाणानि जघन्यं योगस्थानं भवन्ति । एतश्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्त्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदास्तृतीया वर्गणा। त्रिभिवर्याविभागैरधिकानां समुदायश्चतुर्थी वर्गणा, एवं तावद्वाच्यं यावच्छ्रेण्यसंस्थेयभागगतप्रदेशराशिप्रमाणा भवन्ति । तासां समुदायः प्रथमं स्पर्धकम् । ततः प्राक्रनयोगस्थानप्रदशितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि । तामि च तावद्वाच्यानि यावच्छेण्यसंस्थेयभागतप्रदेशराशिप्रमारणानि भवन्ति, ततस्तेषां समुदायो द्वितीयं योगस्थानम् । ततोऽन्यस्य जीवस्याधिकतमवीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यम् । एवमन्यान्यजीवापेक्षया तावद् योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्टं योगस्थानं भवति । इह द्वितीये योगस्थाने प्रथमे स्पर्धके प्रथमवर्गलायां जीवप्रदेशाः प्रथमयोगस्थानचरमस्पर्धकचरमवर्गणागतर्वार्याविभागापेक्षया असंख्येयैवर्याविभागैरधिकाः प्राप्यन्ते । तृतीयेऽपि योगस्थाने प्रथमस्पर्धके प्रथमवर्गलायां जीवप्रदेशा द्वितीय-योगस्थानचरम स्पर्धक चरमवर्गणागतवीर्याविभागापेक्षयाऽसंख्येयैवर्याविभागैरधिकाः प्राप्यन्ते । एवं सर्वेष्वपि द्रष्टव्यम् । तानि च योगस्थानानि सर्वाण्यपि कियन्ति भवन्तीति वेदुच्यते-- श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणानि । ननु जीवानामनन्तत्वात्प्रतिजीवं च योगस्थानस्य प्राप्यमाणत्वादनन्तानि योगस्थानानि प्राप्नुवन्ति, कथमुच्यते-रायसेस्येय भागगतप्रदेशप्रमाणानीति ? नैष दोषः, यतः एकै Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488