________________
(१३६६ ) अभिधानराजेन्द्रः ।
बीरिय
ते चाविभागा एकैकस्मिन् जीवप्रदेशे यावन्तो भवन्ति तावत आह-
पायविभा, लोगासंखेज गप्पएससमा । विभागा एकेके, होंति पएसे जहञेयं ॥ ६ ॥
प्रज्ञाछेदनकेन चिचाः सन्तो ये वीर्यस्याविभागा जातास्ते एकैकस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्य संख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति । उत्कर्षतो ऽप्यसंख्येयलोकाकाशप्रदेशप्रमाणा एव । किं तु ते जघन्यपदभाविवीर्याविभागापेक्षयाऽसंख्येयगुणा द्रष्टव्याः इति ॥ ६ ॥ उक्काऽवि
भागप्ररूपणा |
संप्रति वर्गणाप्ररूपणामाह
जेसि पसाय समा, अविभागा सम्वतो य थोवतमा । ते वग्गणा जहना, अविभागहिया परंपरओ ॥ ७ ॥
येषां जीवप्रदेशानां समास्तुल्यसंख्या वीर्याविभागा भवन्ति, सर्वतश्च सर्वेभ्योऽपि चान्येभ्योऽपि जीवप्रदेशगतवीर्याsविभागेभ्यः स्तोकतमाः, ते जीवप्रदेशा घनीकृतलोकासंख्येयभागवर्त्य संस्थेयप्रतरगत प्रदेशराशिप्रमाणाः समुदिता एका वर्गला । सा च जघन्या स्तोकाऽविभागयुक्तत्वात्, श्रविभागाधिका परंपरत इति । ततः परा वर्गणा एकैके नाविभागेनाधिका वक्तव्या । तद्यथा— जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविभागेनाभ्यधिका धनीकृतलोकासंख्येय भाग वर्त्य संख्येय प्रतरगत प्रदेशराशिप्रमाणा वर्तन्ते, तेषां समुदायो द्वितीया वर्गणा । ततः परं द्वाभ्यां वीर्याविभागाभ्यामधिकानामुक्तसंख्याकानामेव जीवप्रदेशानां समुदायस्तृतीया वर्गेणा । ततोऽपि त्रिभिवयांविभागैरधिकानां तावत्संख्याकानामेव जीवप्रदेशानां समुदायश्चतुर्थी वर्गला । एवमेकैकवीर्याविभागवृद्धया वर्धमानानां तावतां तावतां जीवप्रदेशानां समुदायरूपा वर्गणा असंख्येया वक्तव्या इति ॥ ७ ॥
तान कियस्य इति तनिरूपणार्थे स्पर्धकप्ररूपणामाहसेढिअसंखित्रमित्ता, फड्गमे तो अंतरा नडत्थि । जाव असंखा लोगा, तो बीयाई य पुब्वसमा ॥ ८ ॥ इह धर्नाकृतस्य लोकस्य या एकैकप्रदेशपतिरूपा श्रेणिस्तस्याः श्रेणेरसंक्येयतमे भागे यावन्त आकाशप्रदेशास्तावन्मात्रस्तावत्प्रमाणा यथोक्तस्वरूपा वर्गणाः समुदिताः, एकं स्पर्धकं, स्पर्धन्त इवोत्तरोत्तरवृद्धया वर्गणा अत्रेति स्पर्धकम् । हुलमिति ( श्रीम० कृ० १-११) वचनादधिकरणे धुम् । उक्का स्पर्धकप्ररूपणा । सांप्रतमन्तरप्ररूपणामाह-' एतो अंतरा नत्थि ' इतः पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा अनन्तरा न सन्ति । किमुक्तं भवति ? - ऊर्ध्वमेकैकवीर्याविभागवृद्धया निरन्तरं वर्धमाना जीवप्रदेशा न लभ्यन्ते, किंतु सान्तरा एव । तथाहि पूर्वोक्तस्पर्धकगतचरमवर्गणायाः परतो जीवप्रदेशा नैकेन वीर्याविभागेनाधिकाः प्राप्यन्ते, नापि द्वाभ्यां नापि त्रिभिः, नापि चतुर्भिः यावन्नापि संख्येयेः, किं त्वसंस्येयैरेवासंस्येयलोकाकाशप्रदेश प्रमासैरभ्यधिकाः प्राप्यन्ते ।
+
Jain Education International
For Private
बीरिय ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । 'तो बीयाई य पुण्यसमति ततो द्वितीयस्पर्धकप्रथमवर्गणातः परतो द्वितीयादयो वर्गणाः पूर्वसमाः पूर्वस्पर्धकस्येव वतव्या इत्यर्थः । तथाहि प्रथमवर्गणायाः परतो जीवप्रदेशानामेकेन वीर्याविभागेनाधिकानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदायस्तुतीया वर्गणा । एवं तावद्वाच्यं यावत् श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणा वर्गणा भवन्ति, तासां व समुदायो द्वितीयं स्पर्धकम् । ततः परं पुनरप्येकेन वीर्याविभागेनाघिका जीवप्रदेशा न लभ्यन्ते, नापि द्वाभ्यां नापि त्रिभिः, यावन्नापि संक्येयैः, किं त्वसंख्येयैरेवासंख्येयलोकाकाशप्रदेप्रमाणैरभ्यधिकाः प्राप्यन्ते ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकैकधीर्याविभागवृद्ध्या द्वितीयादयो वर्गणास्तावद्वाच्या याच्छ्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति, तासां च समुदायस्तृतीयं स्पर्धकम् । एवम संख्येयानि स्पर्धकानि वाच्यानीति ॥ ८ ॥ तदेवं कृताऽन्तरप्ररूपणा ।
संप्रति स्थानप्ररूपणां करोति
सेढि संखियमेता हूँ फड्डगाई जहभयं ठाणं । फडगपरिवुडिओ, अंगुलभमो असंखतमो ॥ ६ ॥ इह पूर्वोक्तानि स्पर्धकानि श्रेण्यसंख्येयभामगतप्रदेशराशिप्रमाणानि जघन्यं योगस्थानं भवन्ति । एतश्च सूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य भवप्रथमसमये वर्त्तमानस्य प्राप्यते । ततोऽन्यस्य जीवस्याधिकतरवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशास्तेषां समुदायः प्रथमा वर्गणा । तत एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा । द्वाभ्यां वीर्याविभागाभ्यामधिकानां समुदास्तृतीया वर्गणा। त्रिभिवर्याविभागैरधिकानां समुदायश्चतुर्थी वर्गणा, एवं तावद्वाच्यं यावच्छ्रेण्यसंस्थेयभागगतप्रदेशराशिप्रमाणा भवन्ति । तासां समुदायः प्रथमं स्पर्धकम् । ततः प्राक्रनयोगस्थानप्रदशितप्रकारेण द्वितीयादीन्यपि स्पर्धकानि वाच्यानि । तामि च तावद्वाच्यानि यावच्छेण्यसंस्थेयभागतप्रदेशराशिप्रमारणानि भवन्ति, ततस्तेषां समुदायो द्वितीयं योगस्थानम् । ततोऽन्यस्य जीवस्याधिकतमवीर्यस्योपदर्शितप्रकारेण तृतीयं योगस्थानं वाच्यम् । एवमन्यान्यजीवापेक्षया तावद् योगस्थानानि वाच्यानि यावत्सर्वोत्कृष्टं योगस्थानं भवति । इह द्वितीये योगस्थाने प्रथमे स्पर्धके प्रथमवर्गलायां जीवप्रदेशाः प्रथमयोगस्थानचरमस्पर्धकचरमवर्गणागतर्वार्याविभागापेक्षया असंख्येयैवर्याविभागैरधिकाः प्राप्यन्ते । तृतीयेऽपि योगस्थाने प्रथमस्पर्धके प्रथमवर्गलायां जीवप्रदेशा द्वितीय-योगस्थानचरम स्पर्धक चरमवर्गणागतवीर्याविभागापेक्षयाऽसंख्येयैवर्याविभागैरधिकाः प्राप्यन्ते । एवं सर्वेष्वपि द्रष्टव्यम् । तानि च योगस्थानानि सर्वाण्यपि कियन्ति भवन्तीति वेदुच्यते-- श्रेण्यसंख्येयभागगत प्रदेशराशिप्रमाणानि । ननु जीवानामनन्तत्वात्प्रतिजीवं च योगस्थानस्य प्राप्यमाणत्वादनन्तानि योगस्थानानि प्राप्नुवन्ति, कथमुच्यते-रायसेस्येय भागगतप्रदेशप्रमाणानीति ? नैष दोषः, यतः एकै
Personal Use Only
www.jainelibrary.org