Book Title: Abhidhan Rajendra kosha Part 6
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1434
________________ ( २४१५ ) अभिधानराजेन्द्रः | बुडावास पालयित्वा द्वादश वर्षाण्यव्यवच्छितिं कुर्वता यदि शिष्यो निष्पादितस्ततस्तं गये स्थापयित्वा स्वयमभ्युद्यतविहारेण विहर्तव्यमिति भगवतामर्हतामुपदेशः । अथ न कोऽपि शिच्यो निष्पन्नस्तर्हि गच्छः परिवर्द्धनीयः, तथा यद्यपि च न निष्पन्नः कोऽपि शिष्यस्तथापि कश्चिदसमर्थो भवत्यभ्युद्यतविहारेण विहतु सोऽपि नाभ्युद्यतविहारं प्रतिपद्यते, तस्य शिष्यनिष्पत्यभावेनाभ्युद्यतविहारप्रतिपत्स्यशक्त्या वा गच्छं परिपालयतो दीर्घाऽऽयुषो वृद्धवासस्य कालः । एनामेव गाथां व्याख्यानयति सुत्तागमो बारसमा - चरियं देसाय दरिसणं तु गतं । उवकरणदेहइंदिय-तिविहं पुण लाघवं होइ ।। ५३१ ॥ विद्या नाम- सूत्रागमः स द्वादश वर्षाणि यावत् तदुपलक्षणमेतदर्थागमो ऽपि विद्या सोऽपि द्वादश वर्षाणि कृतः, तथा चरितं नाम देशानां दर्शनं तदपि द्वादश वर्षाणि कृतम् । लाघवं पुनस्त्रिविधं भवति । तद्यथा-उपकरणलाघवं देहलाघवम्, इन्द्रियलाघवं च । तत्रोपकरणलाघवम्-उपधेररूपीकरणं यदतिरिक्तमुपकरणं न गृह्णाति गृहीतं वाsरद्विष्टः सन् सूत्रोक्तविधिना परिभुङ्क्ते, देहलाघवं यन्नातिकृशो नातिस्थूलः, शरीरेण, इन्द्रियलाघवम्-यदीन्द्रियाणि तस्य वशे वर्त्तन्ते । चउत्थ छट्ठादि तवो, कतो उज्वोच्छित्तीऍ होइ सिद्धिपहो । सुत्तविहीए संजम, बुड्डो ग्रह दीहमाई तु ।। ५३२ ॥ तपश्चतुर्थषष्ठादिकं कृतं तथा अव्यवस्थितौ क्रियमाणायां सिद्धिपथो-मोक्षमार्गे देशितो भवति, तथा सूत्रविधिना संयमः परिपालितः स च जातो वृद्धोऽप्यथ दीर्घमायुः । अन्भुञ्जतमत एंतो, अगीतसिस्सो व गच्छपडिबद्धो । अच्छति जुन्नमहल्लो, कारणतो वा अजुपोऽवि ||५३३ ॥ 'अभ्युद्यतविहारमशक्नुवन् श्रगीताः शिष्या अद्यापि यस्यासौ वा गच्छप्रतिबद्धो - गच्छ परिपालनप्रवृत्तः सन् जीर्णो महान् वृद्धवासे तिष्ठति । श्रजीर्णोऽपि वा - तरुणो ऽपि वा कारणतः क्षीणजङ्घाबलतया रोगादिना वा वृद्धाबासमुपसेवते । तदेव कारणजातं गाथाद्वयेनाहजंघाबले व खीणे, गेलन सहाय ताव दुब्बल्ले । अहवाऽवि उत्तमट्ठे, निष्फत्ती चैव तरुणायं ।। ५३४ ॥ खेत्ताणं च अलंभे, कयसंलेहेव तरुणपरिकम्मे । Reir कारणेहिं, बुडावासं वियाग्राहि ।। ५३५ ॥ जावलं वा क्षीणं, ग्लानत्वं वा तस्यान्यस्य वा जातम्, असहायता वा समुत्पन्ना दौर्बल्यं वा शरीरस्योपजातम्, अथवा उत्तमार्थप्रतिपक्षः, अथवा तरुणानामात्मपरलक्षणानां निष्पत्तिः सूत्रतोऽर्थतश्च कर्तव्या । क्षेत्राणां वा संयमस्फीतिहेतू नामलाभः । कृतसंलेखो वा प्रतिपन्नसंलेखनाको वर्तते । यदि वा तरुणस्य - रोगविमुक्तस्य सतः प्रतिकर्म बलविवृद्धिकरणं समारब्धं ततो वृद्धावासः । तथा चाह - एतैः कारणैर्वृद्धावासं विजानीहि । तत्र प्रथमद्वारे - अहाबलं परिक्षीणमित्येवंरूपं कियत् क्षेत्रं कियता कालेन गन्तुं शक्नुवन् विहरणाहों भवति । Jain Education International For Private बुडावास कियद्वा अशक्नुवन् जङ्गाबलपरिक्षीण इत्येतत्प्रतिपादयतिदोणि वि दाऊण दुबे, सुत्तं दाऊण अत्थव च । दोषी दिवड्डमेगं, तु गाउ तंतीसु अणुकंपा ॥ ५३६ ॥ arovar - सूत्रपौरुषी, अर्थपौरुषी चेत्यर्थः । दवा यावद्विक्षावेला भवति तावद्यो द्वे गव्यूते व्रजति एष सपराक्रमो विहर्तुम् । 'सुत्तं दाऊण अत्थवज्रं चे' ति सूत्रं सूत्रपौरुष दस्व अर्थवर्जम् - अर्थपौरुषीमदत्वा यो भिक्षावेलातः अर्वाग् द्वे गव्यूते व्रजति सोऽपि सपराक्रमो विहर्तुम् । शब्दोऽनुक्तसमुच्चयार्थः । स चैतत् सूत्र पौरुषीमर्थपौरुष वा दवा भिक्षावेलात आरतो यो द्वे गव्यूते याति एषोऽपि सपराक्रमो विहर्तुमिति । एवमेते त्रयः प्रकारा गव्यूतद्वयेऽभिहिताः । एते एव त्रयः प्रकारा इव गव्यूते, त्रयश्च प्रकारा गव्यूते द्रष्टव्याः । एतेषु च त्रिष्वपि द्विकद्वयर्द्धगग्यूतरूपेषु तस्यानुकम्पा विश्रामणादिरूपा वक्ष्यमाया कर्तव्या । संप्रति चशब्दसूचितं तृतीयं प्रकारमुपदर्शयतिखेत्ते अद्धजेोयण, कालें जाव भिक्खवेलाओ । खेत्ते य कालेय, जाखसु सपरकमं थेरं ॥ ५३७ ॥ सूत्रपौरुषीमर्थपौरुषीं वा कृत्वा कालतः प्रातर्वेलात आरभ्य यावद् भिक्षावेला भवति तावत् यः क्षेत्रतोऽर्द्धयोजनं गव्यूतद्वयप्रमाणं व्रजति तं जानीत, क्षेत्रतः कालतश्च सपराक्रमं स्थविरम् । तदेवं गव्यूतद्वयविषये चशब्दसूचितः तृतीयः प्रकारः । प्रकारत्रयदर्शिता एवं द्वधर्द्धगव्यूते गब्यूतेऽपि च द्रष्टव्याः । तथा चैतदर्थख्यापनार्थमेव गव्यूतविषयं तृतीयं प्रकारमाहजो गाउयं समत्थो, सूरादारम्भ भिक्खवेलाओ । विहरउ एसो सपर -- कमो उ नो विहरते ण परं ॥ ५३८ ॥ यः सूरात् -- सूरोङ्गमादारभ्य यावद्भिक्षावेला भवति तावत् व्यूतं गन्तुं समर्थ एषोऽपि सपराक्रम इति विहर्तुम् । ततः परं गव्यूतमिति तावता कालेन गन्तुमशक्नो विहरेत् । इदमुक्तम् -- त्रिष्वपि गव्यूतद्वयादिष्वनुकम्पा कर्तव्येति । तत्र तामेवानुकम्पामाह वीसामण उवगरणे, भत्ते पाणे व लंबणे चैत्र ! गाउयदिवडदोसुं, अणुकंपेसा तिसुं होइ ॥ ५३६ ॥ अन्तराऽन्तरा यत्र विश्रमणार्थे तिष्ठति तत्र विश्राभ्यते, उपकरणे - उपकरणविषये अनुकम्पा कर्त्तव्या, यत्तस्योपकरणं तदम्ये वहन्ति, यैश्च तस्य शीतं न भवति तादृशानि वस्त्राणि देयानि । तथा भक्तं पानंच तत्प्रायोग्यं शुद्धं न लभ्यते, तदा पञ्चकपरिहाण्या तदुत्पादनीयम् । यत्र च विषमं तत्र बाहुप्रदानादिनाऽवलम्बनं कर्त्तव्यम् । चशब्दात् स तेन कालेनोवालमीयो यस्मिन्नुष्णादिभिर्न परिताप्यते । एषाऽनुकम्पा त्रिषु गव्यूतपर्स - गव्यूत-द्विगव्यूतेषु भवति ज्ञातव्या । अथवा - त्रिष्वनुकम्पेति प्रकारान्तरेण व्याख्यानयति हवा आहारोवहि, सेजा अणुकंप एस तिविहो उ । पढमालिया विस्सा-मखादि उबही य बोधव्या । ५४० | Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488